Friday 22 June 2018

उद्यमेन हि सिध्यन्ति

मूलम्-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
पदविभागः-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
अन्वयः-
कार्याणि उद्यमेन हि सिध्यन्ति। मनोरथैः न (सिध्यन्ति) । मृगाः सुप्तस्य सिंहस्य मुखे न हि प्रविशन्ति॥
प्रतिपदार्थः-
कार्याणि = सङ्कल्पितानि आचरणीयानि ; tasks, work
उद्यमेन = प्रयत्नेन ; by effort, trying
हि = नूनं ; indeed
सिध्यन्ति = सम्पद्यन्ते ; get accomplished, done, (bear fruit)
मनोरथैः = कामनाभिः ; by desires, fancies
न (सिध्यन्ति) = पूर्णानि न भवन्ति ; (are) not (accomplished)
मृगाः = जन्तवः, पशुविशेषः ; deer, or animals in general
सुप्तस्य = शयनं कुर्वतः ; of that which is slept
सिंहस्य = मृगराजस्य ; of the lion
मुखे = आस्ये ; in the mouth
न हि प्रविशन्ति = न कदापि प्रवेशं कुर्वन्ति ; do not enter
तात्पर्यम्-

प्रयतनेनैव कर्माणि सफलीभवन्ति, न कदापि मानसिकीच्छया। यथा शयानस्य मृगराजस्य मुखे जन्तवः आगत्य स्वयं आहारं न भवन्ति, तस्य मृगयानन्तरमेव वशीकृत्य हत्वैव आहारेण परिवर्तन्ते, तथैव अत्रापि।

Tasks can be accomplished by strong efforts; not merely by desiring (their completion). Animals do not enter a sleeping lion's mouth on their own.

प्रश्नाः-
    १.      कार्याणि कथं सिद्ध्यन्ति?
    २.      मृगाः कुत्र न प्रविशन्ति?
    ३.      ------- कार्याणि न सिद्ध्यन्ति।
    ४.      मनोरथैः इति शब्दस्य पदविश्लेषणं वदत?
    ५.      कार्याणि इति शब्दस्य किं लिङ्गम्?
    ६.      सुप्तस्य इति कस्य विशेषणम्?

No comments:

Post a Comment