Tuesday 26 June 2018

यस्य नास्ति स्वयं प्रज्ञा


मूलम्-
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति॥
पदविभागः-
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति॥
अन्वयः-
यस्य स्वयं प्रज्ञा नास्ति शास्त्रं तस्य किम् करोति? लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति॥
प्रतिपदार्थः-
यस्य = यस्य पुरुषस्य ; one whose
स्वयं = आत्मनः ; oneself, in one's own person
प्रज्ञा = बुद्धिः, धीः ; Intelligence, intellect, wisdom
नास्ति = न वर्तते ; does not have
शास्त्रं = अध्येयं वस्तु ; science, (logos), discipline Any department of knowledge
तस्य = तस्य पुरुषस्य ; (here) for him
किम् करोति = को लाभः ; what does it do
लोचनाभ्याम् = अक्षिभ्यां ; (by his) eyes
विहीनस्य = रहितस्य ; of the one who is devoid of
दर्पणः = आदर्शः ; mirror
किं करिष्यति = को लाभः ; what will (it) do?
तात्पर्यम्-

यस्य स्वबुद्धौ कौशल्यं नास्ति, [शास्त्राध्ययन-सामर्थ्याभावात्] शास्त्रं तस्योपयोगाय न भवति। [अत्र निदर्शनं दीयते] यः अन्धः सः दर्पणेन कं लाभं प्राप्स्यति? [रूपदर्शन-साधनभूत-नेत्रयोरभावात्]

What is use of discipline of study to a person who does not have intellectual capacity? What way can a mirror help a person who is blind?
प्रश्नाः-
    १.      शास्त्रं कस्य किं करोति इति प्रश्नः?
    २.      अत्र उपमानं किम्?
    ३.      लोचनाभ्याम् विहीनस्य’ इत्यत्र तृतीया विभक्तिः कथम्?
    ४.      ------ किं करिष्यति। (रिक्तस्थानं पूरयत)
    ५.      अत्र श्लोके कस्य कस्य तुलना केन केन कृता?

No comments:

Post a Comment