मूलम्-
विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय ॥
पदविभागः-
विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय। खलस्य साधोः विपरीतम् एतत् ज्ञानाय दानाय च रक्षणाय ॥
अन्वयः-
खलस्य विद्या विवादाय, धनं मदाय,
शक्तिः परेषां परिपीडनाय (च भवति)। एतत् साधोः विपरीतम्। (विद्या)
ज्ञानाय (धनं) दानाय (शक्तिः परेषां) रक्षणाय च (भवति)॥
प्रतिपदार्थः-
खलस्य
= दुष्टस्य ; of
crooked man, wicked man
विद्या
= विद्वत्त्वं,
अधिगमः ; education, knowledge
विवादाय
= वादप्रतिवादनाय ; argument
धनं = अर्थः ; wealth,
money
मदाय
= गर्वोद्धतये,
दम्भाय ; for pride, arrogance, conceit
शक्तिः
= शारीरकं
बलं ; power, strength
परेषां
= अन्येषां ; of
others
परिपीडनाय
= क्लेशनाय ; for
inflicting pain upon
एतत्
= इदं ; this
साधोः
= सज्जनस्य ; of
good man
विपरीतम्
= विरुद्धं ; opposite
ज्ञानाय
= ज्ञानार्जनाय ; for
wisdom
दानाय
= परस्मै
प्रदानाय
; for charity
च = च ; and
रक्षणाय
= पालनाय ; for protection
तात्पर्यम्-
दुष्टानां विद्या विवादाय
भवति। धनं च दम्भाय भवति। शक्तिः इतरेषां पीडनार्थं भवति। अस्य विरुद्धं, सज्जनस्य
विद्या ज्ञानवर्धनाय, धनं च परेभ्यः दातुं, शारीरकशक्तिः च अन्येषां
साहाय्यार्थं भवति।
A wicked man uses his education for
argument, money to be arrogant and strength to hurt others. In contrast a
virtuous person uses the same for acquiring new knowledge, charity and
protecting respectively.
प्रश्नाः-
१. खलस्य विद्या कुतो भवति?
२. साधोः किं ज्ञानाय भवति?
३. शक्तिः परेषां ------।
(रिक्तस्थानं पूरयत)
४. ‘साधोर्विपरीतम्’ इत्यत्र
सन्धिविच्छेदनं कुरुत।
५. साधुजनः शक्तिं कुतः
उपयुनक्ति?
(साधुविकल्पं चिनुत) क. ज्ञानाय ख. दानाय ग. रक्षणाय
६. ‘शक्तिः’ इत्यस्य किं
व्याकरणम्?
No comments:
Post a Comment