Monday 25 June 2018

गच्छन् पिपीलको


मूलम्-
गच्छन् पिपीलको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥
पदविभागः-
गच्छन् पिपीलको याति, योजनानां शतानि अपि। अगच्छन् वैनतेयः अपि, पदम् एकं न गच्छति॥
अन्वयः-
पिपीलकः गच्छन् योजनानां शतानि अपि याति, वैनतेयः अगच्छन् एकं पदम् (अपि) न गच्छति।
प्रतिपदार्थः-
पिपीलकः = प्राणिविशेषः, अल्पः षट्पादजीवी ; ant
गच्छन् = चलन्, अग्रे सरन् ; (lit. the one who is) while moving, walking,
योजनानां शतानि = अध्वानविशेषः, अतिशयेन दूरम् ; (of) hundreds of miles (yojana = an ancient measure of distance) [Apte-A measure of distance equal to four Krośas or eight or nine miles;]
अपि = च ; also
याति = गच्छति ; goes
वैनतेयः = गरुडः, विनतानन्दनः ; son of vinatA, garuDa, the king of birds
अगच्छन् = गमनं न कुर्वन् ; (the one who is) while not moving
एकं पदम् (अपि) = एकस्य पदस्य दूरम् ; one step
न गच्छति = न प्राप्नोति ; (does) not go
तात्पर्यम्-

लघुपिपीलकः अपि प्रयत्नपूर्वकं गच्छन् शतानि योजनानि (अर्थात् बहुदूरम्) गन्तुं समर्थः भवति, परन्तु बलशाली वैनतेयः (गरुडः) अग्रे न सरन् (अर्थात् प्रयत्नं विना) एकमपि पदं न गच्छति।
अर्थात् अतिसमर्थः अपि यदि कार्यारम्भं न करोति तर्हि कार्यं न साध्यते। सामान्यः जनः अपि यदि प्रयत्नेन कार्यं करोति तर्हि कार्यसंसिद्धिः भवति।

An ant covers hundreds of miles when it keeps moving. Garuda, when stagnant, does not move even one foot.
प्रश्नाः-
    १.      योजनानां शतान्यपि कः कथं याति?
    २.      पदमेकं अपि कः न गच्छति?
    ३.      ‘वैनतेयोऽपि’ इति शब्दस्य व्याकरणम् किम्?
    ४.      अगच्छन् ------ पदमेकं न गच्छति। (रिक्तस्थानं पूरयत)
    ५.      ‘शतान्यपि’ इत्यत्रसन्धिः विभज्यताम्।
    ६.      गच्छन् ------ याति। क. पिपीलकः ख. वैनतेयः ग. कोऽपि न

1 comment: