Monday 25 June 2018

आचार्यात् पादमादत्ते


मूलम्-
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
पदविभागः-
आचार्यात् पादम् आदत्ते पादं शिष्यः स्वमेधया पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च।
अन्वयः-
शिष्यः पादम् आचार्यात् आदत्ते। पादं स्वमेधया (आदत्ते)। पादं सब्रह्मचारिभ्यः (आदत्ते)। पादं कालक्रमेण च (आदत्ते)।
प्रतिपदार्थः-
शिष्यः = गुरुकुलनिवासी अध्येता, छात्रः ; student (lit. traditional student)
पादम् = चतुर्थं भागं ; one fourth
आचार्यात् = गुरोः सकाशात् ; from Teacher (lit. traditional Guru)
आदत्ते = लभते ; obtaines, gets
स्वमेधया = स्वस्य धीशक्त्या ; by self-understanding, own knowledge
सब्रह्मचारिभ्यः = सहविद्यार्थिभिः साकम् अधीत्य ; co-students, fellow learners
कालक्रमेण च = कालान्तरेण ; by passage of time
तात्पर्यम्-

(अध्ययनेन अवगमनं कदापि एककाले सम्पूर्णत्वं न याति।) अध्येता एकैकं पादभागं गुरोः सकाशात् (शिक्षणेन), सतीर्थेभ्यः (चर्चादिकं कृत्वा, पौनःपुन्यचिन्तनेन) स्वस्य बुद्ध्या (च गृहीत्वा) अवशिष्टं पादभागं तु शनैः शनैः जीवने अनुभवेन अध्येति। [पादमिति अत्र अवगमनविषयकमिति गुरुशिष्यप्रसङ्गेन ज्ञायते।]

A student gets a quarter (knowledge) from his teacher, a quarter by his own intelligence. A quarter from his co-students and a quarter in due course of time. (Since this is about Shishya, the one-fourth is understood as pertaining to learning.)
प्रश्नाः-
    १.      शिष्यः प्रथमपादं कस्मात् आदत्ते?
    २.      द्वितीयं पादभागं केभ्यः आदत्ते?
    ३.      कालक्रमेण किमादत्ते?
    ४.      स्वमेधया’ इत्यत्र तृतीयाविभक्तिसिद्धिं वदत?
    ५.      सब्रह्मचारिभ्यः’ इत्यत्र पदविश्लेषणं कुरुत?
    ६.      कालक्रमेण’ इत्यत्र समासं वदत?

No comments:

Post a Comment