Tuesday 26 June 2018

आदौ चित्ते


मूलम्-
आदौ चित्ते ततः काये सतां सम्पद्यते जरा ।
असतां तु पुनः काये नैव चित्ते कदाचन ॥
पदविभागः-  सुलभः
अन्वयः-
सतां जरा आदौ चित्ते ततः (च) काये सम्पद्यते । पुनः असतां तु काये (एव सम्पद्यते) । चित्ते नैव कदाचन (सम्पद्यते) ॥
प्रतिपदार्थः-
सतां = महात्मनां ; of the noble people, good or virtuous men
जरा = वार्धक्यं ; old age
आदौ = प्रथमं ; first
चित्ते = मनसि ; in (the) mind
ततः = तत्पश्चात् ; then
काये = शरीरे ; in the body
सम्पद्यते = जायते ; arises, is born or produced.
पुनः = (अत्र) किन्तु ; On the other hand, on the contrary, but, however,
असतां = दुरात्मनां ; of the wicked
तु = निश्चितम् ; nevertheless
न एव = न (भवति) never
कदाचन = कदाचिदपि ; at some time (here = ever)
तात्पर्यम्-

ये साधुपुरुषाः, वार्धक्यं प्रथमं तेषां मनसि प्रविशति, तत्पश्चादेव शरीरे दृश्यते। दुर्जनानां तु शरीरे वार्धक्यापतनं पश्चादपि मनसि नोदेति। 
(अन्तरार्थः-) साधुपुरुषाः स्ववयसः अधिकं ज्ञानं प्राप्य ज्ञानेन वृद्धा इव आचरन्ति। गच्छता कालेन ते शरीरेण वार्धक्यं प्राप्नुवन्ति। किन्तु दुष्टाः सर्वदा वार्धक्यं प्राप्यापि ज्ञानं न विन्दन्ति। सदा बाला इवैव आचरन्ति।

Old age gets first into the mind and then into the body [in the case] of virtuous people. But it arises in body, but never mind of the wicked.
It means - Virtuous people get ripe in thinking soon, but, for the wicked, even though the body becomes old, the mind never develops. [Old age signifies growth and ripeness]
प्रश्नाः-
    १.      सतां जरा कुत्र सम्पद्यते?
    २.      असतां जरा कुत्र सम्पद्यते?
    ३.      सतां ------ जरा। (रिक्तस्थानं पूरयत।)
    ४.      नैव ----- कदाचन। क. चित्ते ख. काये ग. सतां (साधु विकल्पं चिनुत)
    ५.      ‘सम्पद्यते’ इत्यस्य पदविश्लेषणं वदत।

No comments:

Post a Comment