Tuesday 26 June 2018

पुस्तकस्था तु या विद्या


मूलम्-
पुस्तकस्था तु या विद्या परहस्तगतं धनं। (पाठ. परहस्ते च यद्धनम्)
कार्यकाले समायाते न सा विद्या न तद्धनम्॥ (पाठ. समुत्पन्ने)
पदविभागः-
पुस्तकस्था तु या विद्या परहस्त-गतं धनं। कार्यकाले समायाते न सा विद्या न तत् धनम्॥
अन्वयः-
या विद्या पुस्तकस्था तु (यत्) परहस्त-गतं च धनं, कार्यकाले समायाते सा विद्या न (उपयोगाय) तत् धनं न (उपयोगाय)॥
प्रतिपदार्थः-
या विद्या = यत् ज्ञानं ; that knowledge
पुस्तकस्था तु = ग्रन्थे स्थिता ; (which is there) (only) in the book
परहस्तगतं = परेषां अधीनं कृतं ; (that which is) gone into others’ hands
धनं = अर्थः, सम्पत् ; money
कार्यकाले समायाते = आवश्यकतायाः आगमने, अवसरे प्राप्ते ; (when) time of need (Lit. work) arrives, comes
न सा विद्या = तत् ज्ञानं न (=निरर्थकं) ; that is not knowledge
न तत् धनम् = तत् धनं न (=निरर्थकं) ; that is not money
तात्पर्यम्-

यत् ज्ञानं पुस्तके स्थितं (न पुनः बुद्धौ) यत् धनं परेषां हस्ते समर्पितं (न पुनः प्राप्तं) - ते द्वे च उपयोगाय न भवतः। व्यर्थमेव तत् द्वयम्।

The knowledge in the books, [not understood by oneself] and money given to others [not returned back for personal use] are useless [not handy] in time of need.
प्रश्नाः-
    १.      का न विद्या?
    २.      किं न धनम्?
    ३.      पुस्तकस्था’ इत्यस्य पदविश्लेषणं वदत?
    ४.      परहस्तगतं’ इत्यत्र समासविग्रहं वदत?
    ५.      ‘कार्यकाले समायाते’ अत्र सप्तमी कथम्?

No comments:

Post a Comment