Monday 25 June 2018

शकटं पञ्चहस्तेषु


मूलम्-
शकटं पञ्चहस्तेषु दशहस्तेषु वाजिनम् ।
गजं हस्तसहस्रेषु दुर्जनं दूरतस्त्यजेत् ॥
(पाठ. गजं हस्तसहस्रे च दुष्टं दूरे च वर्जजेत् ॥)
पदविभागः-
शकटं पञ्चहस्तेषु दशहस्तेषु वाजिनम् । गजं हस्तसहस्रेषु दुर्जनं दूरतः त्यजेत् ॥
अन्वयः-
शकटं पञ्चहस्तेषु (त्यजेत्)। दशहस्तेषु वाजिनम् (त्यजेत्)। गजं हस्तसहस्रेषु (त्यजेत्) । दुर्जनं दूरतः त्यजेत् ॥
प्रतिपदार्थः-
शकटं = वाहनं, रथः ; chariot, moving vehicle
पञ्चहस्तेषु = पञ्चहस्तप्रमाणकं दूरं (हस्तः नाम कफोणितः मध्यमापर्यन्तं अन्तरालं) ; (a distance of) 5 times one’s hand-length
दशहस्तेषु = दशहस्तप्रमाणकं दूरं ; (a distance of) 10 times one’s hand-length
वाजिनम् = अश्वं ; horse
गजं = हस्तिनं ; elephant
हस्तसहस्रेषु = सहस्रहस्तप्रमाणकं दूरं ; (a distance of) 1000 times one’s hand-length
दुर्जनं = खलं, दुष्टं ; (obj. sing.) wicked person, villain
दूरतः = असमीपतः, अनिकटतः ; from long distance
त्यजेत् = मुञ्चेत्, नापसर्पयेत् ; should leave out, should not approach
तात्पर्यम्-

पञ्चहस्तप्रमाणकात् दूरात् शकटं, दशभ्यः तुरगं, सहस्रात् च गजं त्यजेत्। एते सर्वे अपसर्पणे आपत्कारिणः। दुर्जनस्तु (ततोऽपि अधिकां हानिं करोतीति) सहस्रहस्त-प्रमाणकात् दूरादपि अधिकदूरात् तं त्यजेदिति सन्देशः। (हस्तो नाम मानविशेषः। प्रलम्बित-मध्यमिकायाः कफण्यवधिकं दूरं, अर्धमीटर-मितम्।)

One should keep away from a (moving) vehicle at (a distance of) 5 times one’s hand-length; from a horse at (a distance of) 10 times one’s hand-length; an elephant (a distance of) 1000 times one’s hand-length and from a wicked person for a long long distance.
(Hasta = "hand" = a measure of length corresponding to the distance from the elbow to the tip of an elongated middle finger, about 0.5 meters.
प्रश्नाः-
    १.      कं पञ्चहस्तेषु त्यजेत्?
    २.      वाजिनं कुत्र त्यजेत्?
    ३.      दुर्जनं किं कुर्यात्?
    ४.      दूरतस्त्यजेत्’ इत्यत्र सन्धिविग्रहं कुरुत?
    ५.      हस्तसहस्रेषु’ इत्यत्र समासविग्रहं कुरुत?
    ६.      ------ दूरतस्त्यजेत्। (रिक्तस्थानं पूरयत)।

No comments:

Post a Comment