Tuesday 26 June 2018

आयुषः खण्डमादाय


मूलम्-
आयुषः खण्डमादाय रविरस्तमयं गतः ।
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ॥
पदविभागः-
आयुषः खण्डम् आदाय रविः अस्तमयं गतः । अहनि अहनि बोद्धव्यं किम् एतत् सुकृतं कृतम् ॥
अन्वयः-
रविः आयुषः खण्डम् आदाय अस्तमयं गतः। किम् एतत् सुकृतं कृतम् (इति) अहनि अहनि बोद्धव्यम् ॥
प्रतिपदार्थः-
रविः = सूर्यः ; sun
आयुषः = जीवनकालस्य ; of the life-span
खण्डम् = भागं, शकलं ; some part
आदाय = गृहीत्वा ; having taken
अस्तमयं गतः = (सूर्यस्य) अदर्शनं प्राप्तः ; has set down(lit. gone for setting) decline in the western horizon
(गतः (lit.) one who is gone)
किम् एतत् = किमिदम् ; what (is) this
सुकृतं = सुष्ठु आचरणं ; good deeds
कृतम् = आचरितम् ; done
अहनि अहनि = प्रतिदिनं ; every day
बोद्धव्यम् = चिन्तितव्यम् ; should know, understand, comprehend
तात्पर्यम्-

प्रतिदिनं सूर्यास्तमयेन जीवानां आयुर्दायः शनैः शनैः क्षयं याति। ‘किमद्य मया सुष्ठु आचरितम्?’ इति अस्माभिः अहरहं चिन्तितव्यम्। (यतो हि सुकृतमेव अस्मभ्यः पुण्यं ददाति।)

Sun is gone away taking some part of our life-span. So one should one comprehend (contemplate) everyday - ‘What good deeds have I done [today]?’
[Not a very good standard of language, [at एतत् and बोद्धव्यम्] but idea is beautiful. So sharing.]
प्रश्नाः-
     १.      कः अस्तमयं गतः?
     २.      किमादाय गतः?
     ३.      किं बोद्धव्यम्?
     ४.      अहन्यहनि’ इत्यत्र सन्धिविग्रहं वदत?
     ५.      ‘बोद्धव्यं’ इत्यत्र पदविश्लेषणं किम्?
     ६.      किमेतत् ------ कृतम्। (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment