Tuesday 26 June 2018

अदाता पुरुषस्तयागी


मूलम्-
अदाता पुरुषस्तयागी धनं सन्त्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥
पदविभागः-
अन्वयः-
अदाता पुरुषः त्यागी (भवति) । धनं सन्त्यज्य गच्छति । दातारं कृपणं मन्ये । मृतः अपि अर्थं न मुञ्चति ॥
प्रतिपदार्थः-
अदाता = दानविमुखः ; non-giver, one who does not give charity, miser
पुरुषः = मनुष्यः (स्त्री अपि); man or woman, human
त्यागी = यः सर्वं जहाति, त्यजति ; donor, one who gives away without expecting anything in return
धनं = वित्तं ; money
सन्त्यज्य = सम्यक् विमुच्य ; having left behind
गच्छति = (अत्र- परलोकं) एति ; goes away
दातारं = यः (धनादिकं) यच्छति, तं दानशीलिनं ; one who gives donations, giver (obj.)
कृपणं = यः कदापि किमपि दातुं नेच्छति, लोभी, तं ; miser, mean (obj.)
मन्ये = इति भावये ; I consider, regard, deem, look upon
मृतः अपि = विगतप्राणः अपि ; even (when) dead, life-less (man)
अर्थं = प्रयोजनं, धनं ; (here) substance, objective -(pun here on this word. It means both money and purpose)
न मुञ्चति = न त्यजति ; does not leave
तात्पर्यम्-

यो दानशीली नास्ति, स पुरुषः त्यागी अस्ति। सः स्वस्य समस्तं धनम् अत्रैव त्यक्त्वा म्रियते, (येन बन्धवः धनं लभन्ते। सः परलेको किमपि न प्राप्नोति। अतः) वास्तविकम् अर्थं मुञ्चति।
यः स्वस्मिन् प्राणैः स्थिते सति धनं पूर्वमेव सर्वेभ्यः दत्त्वा म्रियते, स एव यथार्थः लोभी। (तस्य मरणानन्तरं बन्धुभिः स्वीकरणाय किमपि न मुच्यते।) सः वास्तविकं अर्थं मनुष्यजीवनप्रयोजनं न मुञ्चति।

The person who does not donate [his wealth] is a charity man. He dies leaving his wealth behind [for others]. I consider the person who makes great donations, a [real] miser [because] he does not leave the fruit even after his death. (The non-giver leaves off the fruit of donation in the other world by possessing; so he is the real giver-up. The giver gets the fruit of donations in the other world by charity; so he is the real miser.)
प्रश्नाः-
    १.      कः त्यागी?
    २.      कः कृपणः?
    ३.      कः किं कदा न मुञ्चति?
    ४.      ------ कृपणं मन्ये। (रिक्तस्थानं पूरयत)
    ५.      ‘मृतोऽप्यर्थं’ इत्यत्र सन्धिः विभज्यताम्।
    ६.      पुरुषस्तयागी इत्यत्र सन्धिः विभज्यताम्।

No comments:

Post a Comment