Monday 25 June 2018

धर्मो जयति


मूलम्-
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधो विष्णुर्जयति नासुरः ॥
पदविभागः-
धर्मः जयति न अधर्मः। सत्यं जयति न अनृतम् । क्षमा जयति न क्रोधः विष्णुः जयति न असुरः॥
अन्वयः-
धर्मः जयति, अधर्मः न (जयति), सत्यं जयति, अनृतम् न (जयति), क्षमा जयति, क्रोधः न (जयति), विष्णुः जयति, असुरः न (जयति)॥
प्रतिपदार्थः-
धर्मः = ध्रियते सः धर्मः ; (here) Right, justice, equity
जयति = जयं लभते, विजयते ; wins
न अधर्मः = धर्मभिन्नः न ; not injustice
सत्यं = यत् सर्वदा अस्ति तत् ; truth, that which always is
न अनृतम् = सत्यभिन्नं, मृषा ; not falsehood
क्षमा = अक्रोधः ; Patience, forbearance, forgiveness
न क्रोधः = कोपभावना ; not anger, wrath
विष्णुः = भगवान् सर्वान्तर्यामी ; The All-pervading (In general) God, Almighty
न असुरः = सुरभिन्नः न ; not evil spirit, a demon
तात्पर्यम्-

यदाकदापि लोके धर्मस्य, सत्यस्य, क्षमायाः विष्णोः एव जयः। अधर्मस्य, अनृतस्य, क्रोधस्य, असुरस्य च सर्वदा अपजयः एव।

Justice wins, not injustice; Truth wins, not falsehood; Patience wins, not anger; Almighty wins, not demon.
प्रश्नाः-
    १.      के जयन्ति?
    २.      के न जयन्ति?
    ३.      ‘विष्णुर्जयति’ इत्यत्र सन्धिविच्छेदनं वदत?
    ४.      ‘धर्मो जयति’ इत्यत्र कः सन्धिः? विशदयत।
    ५.      ‘अनृतम्’ इत्यत्र समासं विशदयत।

No comments:

Post a Comment