Monday 25 June 2018

सत्यम् माता पिता ज्ञानं


मूलम्-
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखी ।
शान्तिः पत्नी क्षमा पुत्रः षडमी मम बान्धवाः ॥
पदविभागः-
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखी. शान्तिः पत्नी क्षमा पुत्रः षट् अमी मम बान्धवाः॥
अन्वयः-
सत्यं माता , ज्ञानं पिता , धर्मो भ्राता , दया सखी , शान्तिः पत्नी , क्षमा पुत्रः (सन्ति). अमी षट् मम बान्धवाः॥
प्रतिपदार्थः-
सत्यं = यदस्ति तत् सत्यं ; That which Is, Truth
माता = जन्मदात्री, जननी ; Mother
पिता = जन्मदाता ; Father
ज्ञानं = अवबोधः ; Knowledge
धर्मो = (अत्र) आचरणीयः कर्तव्यः ; Duty
भ्राता = सहोदरः ; brother
दया = अनुकम्पा, करुणा ; compassion
सखी = मित्रं ; friend
शान्तिः = प्रशान्तता, कामक्रोधादिजयः ; peace, winning over desire and anger
पत्नी = भार्या ; wife
क्षमा = क्षान्तिः, अक्रोधः ; Forgiveness, non-anger
पुत्रः = स्वजन्यपुरुषः ; Son
अमी षट् = एते षट् ; These six
मम बान्धवाः = मत्सम्बन्धिनः ; my Relatives
तात्पर्यम्-

मम बान्धवाः षट् सन्ति। सत्यं मम जननी। ज्ञानं जनकः। धर्मः सोदरः। दया मित्रम्। शान्तिः भार्या च । पुत्रः क्षमा।

Truth is my mother, knowledge is my father, righteousness is my brother, compassion is my friend, peace is my wife and patience is my son. These six are my kith and kin.
प्रश्नाः-
    १.      के मम बान्धवाः?
    २.      का सखी?
    ३.      सत्यं किंतुल्यम्?
    ४.      ‘षडमी’ इत्यत्र सन्धिः विभज्यताम्।
    ५.      पत्नी का?
    ६.      षडमी मम ------। (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment