मूलम्-
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह।
न मूर्खजनसम्पर्कः
सुरेन्द्रभवनेष्वपि॥-भर्तृहरेः नीतिशतकम्
पदविभागः-
वरं पर्वत-दुर्गेषु भ्रान्तं वनचरैः सह न
मूर्ख-जन-सम्पर्कः सुरेन्द्र-भवनेषु अपि॥
अन्वयः-
पर्वत-दुर्गेषु वनचरैः सह भ्रान्तं वरम्
। मूर्ख-जन-सम्पर्कः सुरेन्द्र-भवनेषु अपि न (वरम्)॥
प्रतिपदार्थः-
पर्वतदुर्गेषु
= दुर्गमपर्वतेषु ; In
mountains, rocks
वनचरैः
सह = वने ये चरन्ति,
निवसन्ति तैः साकं ; along with wild animals/people
भ्रान्तं
= भ्रमणं ; lost
वरं =
श्रेष्ठम् ; better
मूर्खजन-सम्पर्कः
= अर्धज्ञैः सह
मेलनं ; contact of fools
सुरेन्द्रभवनेषु
= इन्द्रस्य
आवासेषु ; in the palaces of Indra
अपि न = कदापि न ; also no.
तात्पर्यम्-
तात्पर्यम्-
गन्तुमशक्येषु पर्वतप्रान्तेषु लक्ष्यरहितं
भ्रमणं अपि श्रेष्ठम् इव दृश्यते। वनचारिभिः पशुभिः क्रूरमृगैः सार्धम् अटनमपि
वरम्। किन्तु अर्धज्ञैः सह परिचयः, साङ्गत्यं वा महेन्द्रस्य सौधेष्वपि
अनर्थदायकम्।
Being
lost in mountains, caves and other deserted places, or with wild animals, wild
people seem better than being with fools. We cannot be with them even if it
were in heaven.
प्रश्नाः-
१.
कुत्र भ्रान्तं वरम्?
२.
सुरेन्द्रभवनेष्वपि किं न भवतु?
३.
‘वनचरैः सह’ इत्यत्र केन पाणिनि-सूत्रेण
तृतीयाविभक्तिः?
४.
‘मूर्खजनसम्पर्कः’ इत्यत्र कः समसः?
५.
‘भवनेष्वपि’ इत्यत्र सन्धिः (साधुविकल्पं चिनुत)
= क. भवने-ष्वपि ख. भवनेष्व-पि ग. भवनेषु-अपि
६.
न ------ सम्पर्कः। (रिक्तस्थानं पूरयतु)
No comments:
Post a Comment