Monday 25 June 2018

रूपयौवनसम्पन्नाः


मूलम्-
रूपयौवनसम्पन्नाः विशालकुलसम्भवाः ।
विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः ॥
पदविभागः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः विद्या-हीनाः न शोभन्ते, निर्गन्धाः इव किंशुकाः ॥
अन्वयः-
रूप-यौवन-सम्पन्नाः, विशाल-कुल-सम्भवाः, विद्या-हीनाः, निर्गन्धाः किंशुकाः इव न शोभन्ते ॥
प्रतिपदार्थः-
रूपयौवनसम्पन्नाः = सौन्दर्ये यौवने च आढ्याः ; those rich in beauty and youthful
विशालकुलसम्भवाः = प्रसिद्ध-गृहेषु जाताः ; those born in great family/clan
विद्या-हीनाः = ज्ञानहीनाः ; those devoid of education, knowledge-less
निर्गन्धाः = सुगन्धहीनाः ; those lack of fragrance
किंशुकाः इव = पलाशपुष्पाणि इव ; blossoms, but without any odour
न शोभन्ते = न युक्ततां भजन्ति ; do not befit, do not look proper
तात्पर्यम्-

ये सौन्दर्यातिशयं, यौवनातिशयं भजन्तः अपि विद्यया हीनाः, ते लोके शोभाहीनाः भवन्ति। यथा किंशुकपुष्पाणि सुन्दराणि किन्तु गन्धहीनानि तथा।

The people who are beautiful, youthful, born in great families, but still devoid of education are unbefitting like fragrance-less flowers.
प्रश्नाः-
    १.      के न शोभन्ते?
    २.      अत्र उपमानं किम्?
    ३.      रूपयौवनसम्पन्नाः’ इत्यत्र कः समासविग्रहः?
    ४.      विशालकुलसम्भवाः’ इति शब्दस्य पदविश्लेषणं किम्?
    ५.      ------ न शोभन्ते। (रिक्तस्थानं पूरयत)।
    ६.      ‘किंशुका’ नाम के?

No comments:

Post a Comment