Monday 25 June 2018

छायामन्यस्य कुर्वन्ति


मूलम्-
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे  
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव 
पदविभागः-
छायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयम् आतपे। फलानि अपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
अन्वयः-
अन्यस्य छायाम् कुर्वन्ति। स्वयम् आतपे तिष्ठन्ति । फलानि अपि परार्थाय (यच्छन्ति)। वृक्षाः सत्पुरुषा इव (वर्तन्ते) 
प्रतिपदार्थः-
वृक्षाः = पादपाः ; Trees 
अन्यस्य = इतरस्य ; for others
छायाम् कुर्वन्ति = आतपाद् रक्षणस्थानं कल्पयन्ति ; shade (they) do
स्वयम् = आत्मना ; themselves
आतपे = सूर्यप्रकाशे ; in heat, under Sun
तिष्ठन्ति = स्थिताः सन्ति ; (They) stand
फलानि = वृक्षजातानि खाद्यानि ; fruits
अपि = अपि ; also
परार्थाय = इतरेभ्यः ; for others
सत्पुरुषाः = सज्जनाः ; Noble persons 
इव = वत् ; like, same as
तात्पर्यम्-

जनेभ्यः आतपात् छायां ददति। स्वयं च आतपे तिष्ठन्ति। फलानि अपि अन्येभ्यः यच्छन्ति। वृक्षाः (आचरणे) च सत्पुरुषसमानाः।

Trees, like Noble persons, provide shade to others but themselves stand in the heat of the Sun. They provide their fruits for the benefit of others.
प्रश्नाः-
    १.      छायां के कुर्वन्ति?
    २.      स्वयं कुत्र तिष्ठन्ति?
    ३.      फलानि किं कुर्वन्ति?
    ४.      ‘फलान्यपि’ इत्यत्र सन्धिः विभज्यताम्।
    ५.      ‘परार्थाय’ इत्यत्र चतुर्थीविभक्तिः कथम्?
    ६.      वृक्षाः ------ इव। (रिक्तस्थानं पूरयत)।

1 comment:

  1. अनित्यानि शरीराणि विभवो नैव शाश्वतः
    नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः

    ReplyDelete