Friday 22 June 2018

गते शोकं न कुर्वीत


मूलम्-
गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत्।
वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः॥
पदविभागः- सुलभः
अन्वयः-
गते शोकं न कुर्वीत। नैव भविष्यं चिन्तयेत्। विचक्षणाः वर्तमानेषु कालेषु वर्तयन्ति ।
प्रतिपदार्थः-
गते = अतीते काले ; In the past
शोकं = दुःखं ; (obj.) Sorrow, grief, distress, affliction, lamentation, wailing, deep anguish
न कुर्वीत = न करणीयम् ; Should not do.
नैव = न एव ; Never, [neither (here)]
भविष्यं = अनागतकालं ; (obj.) The future, futurity, Imminent, impending
चिन्तयेत् = चिन्तनीयम् ; Should not think, consider, reflect, ponder over.
विचक्षणाः = विवेकशीलिनः ; learned men, wise men
वर्तमानेषु = प्रचलितेषु ; In the contemporary, the present time
कालेषु = समयेषु ; in the times
वर्तयन्ति = प्रवर्तन्ते ; They be, exist, abide, remain, subsist, stay
तात्पर्यम्-

कदापि गतकालमाश्रित्य खिन्नैः न भवितव्यम्। भविष्यद्विषये चिन्ताकुलैः न भवितव्यम्। विवेकवन्तः प्रचलितेषु कालेषु प्रवर्तन्ते (कार्येषु दृष्टिं संस्थाप्य यत्करणीयं तत् कुर्वन्ति)।

One should not brood over past; nor worry about future. The wise men always remain in present times.

प्रश्नाः-
    १.      कुत्र शोकं न कुर्वीत?
    २.      विचक्षणाः कुत्र वर्तयन्ति?
    ३.      ------ नैव चिन्तयेत्। (रिक्तस्थानं पूरयत।)?
    ४.      ‘वर्तमान’ शब्दस्य पदविश्लेषणं वदत?
    ५.      ‘विचक्षणाः’ इत्यस्य पदविश्लेषणं वदत?

No comments:

Post a Comment