Monday 25 June 2018

वृश्चिकस्य विषं


मूलम्-
वृश्चिकस्य विषं पुच्छं मक्षिकायाः विषं शिरः ।
तक्षकस्य विषं दन्तं सर्वाङ्गं दुर्जनस्य च ॥
(पाठ. Verse starts with तक्षकस्य विषं दन्ते..; सर्वाङ्गे दुर्जनो विषम्)
पदविभागः-
वृश्चिकस्य विषं पुच्छं मक्षिकायाः विषं शिरः । तक्षकस्य विषं दन्तं सर्वाङ्गं दुर्जनस्य च ॥
अन्वयः-
वृश्चिकस्य पुच्छं विषं (भवति)। मक्षिकायाः शिरः विषं (भवति)। तक्षकस्य दन्तं विषं (भवति)। दुर्जनस्य सर्वाङ्गं (विषं भवति)।
प्रतिपदार्थः-
वृश्चिकस्य = कृमिविशेषः तस्य ; of scorpion
पुच्छं = लाङ्गूलं ; tail
विषं = क्ष्वेलं, गरलं ; poison
मक्षिकायाः = कीटविशेषः तस्याः ; of fly
शिरः = मस्तकं ; head
तक्षकस्य = सर्पविशेषस्य ; of snake (Name of one of the principal serpents)
दन्तं = दंशः ; teeth
दुर्जनस्य = खलस्य, दुष्टस्य ; of wicked
सर्वाङ्गं च = समस्तं शरीरं च ; whole body
तात्पर्यम्-

वृश्चिकस्य पुच्छे, मक्षिकायाः शिरसि, तक्षकस्य दन्ते च विष-मयत्वं कल्पितम्। (जन्तूनां एकैकस्मिन्नेव अङ्गे विषं भवति।) खलस्य तु समस्तशरीरे गरलमेव भवति।

The poison of a scorpion is in its tail; the poison of a fly is in its head; the poison of a snake is in its teeth; the poison of a wicked person is in his whole body.
प्रश्नाः-
    १.      कस्य विषं पुच्छम्?
    २.      मक्षिकायाः विषं कुत्र?
    ३.      दन्ते कस्य विषम्?
    ४.      ‘सर्वाङ्गं’ इत्यत्र पदविश्लेषणं वदत?
    ५.      ------ विषं दन्तम् । (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment