Tuesday 26 June 2018

मक्षिका व्रणमिच्छन्ति


मूलम्-
मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः ।
नीचाः कलहमिच्छन्ति सन्धिमिच्छन्ति साधवः ॥
पदविभागः-
मक्षिकाः व्रणम् इच्छन्ति। धनम् इच्छन्ति पार्थिवाः। नीचाः कलहमिच्छन्ति सन्धिम् इच्छन्ति साधवः ॥
अन्वयः-
मक्षिकाः व्रणम् इच्छन्ति। पार्थिवाः धनम् इच्छन्ति। नीचाः कलहम् इच्छन्ति। साधवः सन्धिम् इच्छन्ति॥
प्रतिपदार्थः-
मक्षिकाः = कीटविशेषाः ; flies
व्रणम् = शरीरक्षतं ; wound (obj.)
इच्छन्ति = वाञ्छन्ति ; desire
पार्थिवाः = राजानः ; kings
धनम् = वित्तं ; money
नीचाः = अधमजनाः ; low minded-people
कलहम् = विवादं ; strife, quarrel (obj.)
साधवः = सज्जनाः ; noble people
सन्धिम् = शान्तिं, सामरस्यं ; peace, compromise
तात्पर्यम्-

मक्षिकाः शरीरक्षतम् इच्छन्ति। राजानः वित्तं वाञ्छन्ति। अधमाः विवादं काङ्क्षन्ति। बुधजनाः सामरस्यम् अभिलषन्ति।

Flies desire wounds. Kings want money. Low people look for quarrel. Noble people like to have peace.
प्रश्नाः-
    १.      मक्षिकाः किम् इच्छन्ति?
    २.      सन्धिं के इच्छन्ति?
    ३.      नीचाः ------ इच्छन्ति। (रिक्तस्थानं पूरयत।)
    ४.      ‘पार्थिव’-शब्दस्य पदविश्लेषणं कुरुत?
    ५.      ‘इच्छन्ति’ इत्यत्र धातुः -- क. इच्, ख. इष् ग. इच्छ् (साधुविकल्पं चिनुत)
    ६.      ‘सन्धिः’ इत्यस्य ------ अर्थः। (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment