Monday 25 June 2018

विदेशेषु धनं


मूलम्-
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम्॥
पदविभागः-  सुलभः
अन्वयः-
विदेशेषु विद्या धनं। व्यसनेषु मतिः धनं। परलोके धर्मः धनं। शीलं सर्वत्र वै धनम्॥
प्रतिपदार्थः-
विदेशेषु = देशान्तरेषु, अज्ञातस्थलेषु ; In foreign countries
धनं = सम्पत्तिः, उपयुक्तं वस्तु (न केवलं रूप्यकाणि) ; money, currency
विद्या = अधीतं ज्ञानं ; Learning, knowledge
व्यसनेषु = दुर्भाग्य-कष्ट-प्रतिकूल-कालेषु ; in adversities
धनं = बलं, (आवश्यकं वस्तु) ; wealth
मतिः = बुद्धिः ; Intellect, sense
परलोके = जन्मतः प्रयाते सति, लोकान्तरे ; in next-world (in Life after death)
धनं = साधकं ; currency
धर्मः = (अत्र) पुण्यं ; (here) good deeds, virtues
शीलं = सद्गुणं, सत्प्रकृतिः, सत्स्वभावः ; good character
सर्वत्र = सर्वेषु देशकालेषु ; everywhere
वै = हि ; indeed
धनम् = प्रतिपत्तिः ; treasure
तात्पर्यम्-

सुलभः।

In foreign countries, learning or knowledge is money. In adversities wealth is intellect. In next-world (in Life after death) currency is good deeds done. Good character is treasure everywhere, indeed.
प्रश्नाः-
    १.      विद्या कुत्र धनम्?
    २.      व्यसनेषु किं धनम्?
    ३.      धर्मः कुत्र धनम्?
    ४.      ‘व्यसनेषु’ इत्यत्र पदविश्लेषणं वदत?
    ५.      ‘परलोके’ इत्यत्र समासविग्रहं वदत?
    ६.      ------ धनं धर्मः । (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment