Monday 25 June 2018

उपकारोऽपि नीचानां


मूलम्-
उपकारोऽपि नीचानामपकाराय वर्तते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ --नीतिसारः
पदविभागः-
उपकारः अपि नीचानाम् अपकाराय वर्तते । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥
अन्वयः-
नीचानाम् उपकारः अपि अपकाराय वर्तते । भुजङ्गानां पयःपानं केवलं विषवर्धनं (भवति) ॥
प्रतिपदार्थः-
नीचानां = अधमजनानां ; of the low people
उपकारः = साहाय्यं ; Service, help, assistance, favour, kindness, obligation
अपि = तदपि ; also
अपकाराय = हानये ; Harm, wrong; injury, hurt, offene, misdeed, wrong deed
वर्तते = भवति ; it is (used for completeness in a sentence)
भुजङ्गानां = पन्नगानां, सर्पाणां ; of the snakes
पयःपानं = दुग्धपानं ; giving milk to drink (lit. causal = drink milk)
केवलं = (अत्र) नान्यत् प्रयोजकं ; alone, only, (here) no other use
विषवर्धनं = विषस्य वर्धकं ; growing/ increasing poison
तात्पर्यम्-

नीचानाम् उपकारः अपि अपकाराय वर्तते । भुजङ्गानां पयःपानं केवलं विषवर्धनं (भवति) ॥

Helping an evil person will cause harm to one even; same as feeding milk to a snake will only increase its poison.
प्रश्नाः-
    १.      किम् अपकाराय वर्तते?
    २.      विषवर्धनं किम्?
    ३.      उपकारोऽपि’ अत्यत्र सन्धिः विभज्यताम्।
    ४.      अपकाराय’ इत्यत्र चतुर्थीविभक्तिः कथम्?
    ५.      पयःपानं’ इत्यस्य समासविग्रहं कुरुत?
    ६.      ------ भुजङ्गानां केवलं ------। (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment