Tuesday 26 June 2018

मातृवत् परदारेषु


मूलम्-
मातृवत् परदारांश्च परद्रव्याणि लोष्ठवत् ।
आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः ॥
पदविभागः-
मातृवत् परदारान् च परद्रव्याणि लोष्टवत् । आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः ॥
अन्वयः-
यः परदारान् च मातृवत्, परद्रव्याणि लोष्टवत्, सर्वभूतानि आत्मवत्, पश्यति सः पण्डितः ॥
प्रतिपदार्थः-
यः = यः मनुष्यः; the person who, one whoever
परदारान् = अन्येषां पत्नीः ; (in) others’ wives
मातृवत् = स्वस्य जननी इव ; like mother
परद्रव्याणि = परेषां वस्तूनि ; (in) others possessions
लोष्टवत् = मृत्पिण्डवत् ; like a lump of earth or clay
सर्वभूतानि = समस्तप्राणिनः ; (in) all beings
आत्मवत् = स्वीयवत् ; like self
पश्यति = भावयति ; sees
सः पण्डितः = सः विवेकशीली ; he (is) a scholar
तात्पर्यम्-

यः मनुष्यः अन्येषां पत्नीः स्वस्य जननी इव, परेषां वस्तूनि मृत्पिण्डवत्, समस्तप्राणिनः च स्वीयवत् पश्यन् व्यवहरति- (तथाविधां दृष्टिं वहति) सः विवेकशीली भवति।

One who sees others’ wives as one’s own mother, other's wealth as clay, and all the other living creatures as equal to one’s self, that is a scholar, indeed.
प्रश्नाः-
   १.      परदारान् कथं पश्येत्?
   २.      कानि लोष्ठवत् पश्यति?
   ३.      आत्मवत् कानि पश्येत्?
   ४.      कः पण्डितः?
   ५.      ‘आत्मवत्’ इत्यत्र पदविश्लेषणं वदत?
   ६.      ‘परद्रव्याणि’ इत्यत्र समासविग्रहं वदत?

No comments:

Post a Comment