Monday 25 June 2018

माता शत्रुः

मूलम्-
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ --चाणक्यः
पदविभागः-
माता शत्रुः पिता वैरी येन बालः न पाठितः । न शोभते सभामध्ये हंसमध्ये बकः यथा ।
अन्वयः-
माता शत्रुः पिता वैरी येन बालो न पाठितः । हंसमध्ये बको यथा न शोभते (तथा) सभामध्ये (सः न शोभते)॥
प्रतिपदार्थः-
माता = जननी ; mother
शत्रुः = प्रत्यर्थी ; enemy
पिता = जनकः ; father
वैरी = वैरमनेन अस्ति इति वैरी, शत्रुः, विपक्षी ; opponent
येन = (अत्र) पितृभ्यां ; by whom
बालो = पुत्रः ; child, (offspring)
न पाठितः = विद्या न दापयिता ; is not educated
हंसमध्ये = हंसपक्षीनां समूहे ; among swans
बको = पक्षिविशेषः ; duck
यथा = येन प्रकारेण ; like, same as
न शोभते = (तस्य उपस्थितिः) न युज्यते ; does not look proper
सभामध्ये = पण्डितसदसि ; in meeting
तात्पर्यम्-

यौ पितरौ पुत्रं न विद्यायुक्तं कुर्वतः तौ तस्य शत्रू इव। सः बालः पण्डितसभासु श्वेतहंसमध्यस्थितः श्यामः काकः इव कदापि न शोभते।

Both the mother and father are enemies of a child if they do not educate him. He will be a misfit in any gathering - like a duck among swans.
प्रश्नाः-
    १.      का शत्रुः कः वैरी?
    २.      कः न शोभते?
    ३.      अत्र उपमानं किम्?
    ४.      ‘हंसमध्ये’ इत्यत्र समासविग्रहः कः?
    ५.      ‘पाठितः’ इत्यत्र पदविश्लेषणं किम्?
    ६.      ------ बको यथा। (रिक्तस्थानं पूरयत।)

No comments:

Post a Comment