Monday 25 June 2018

आयुः कर्म च


मूलम्-
आयुः कर्म च वित्तञ्च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥ --चाणक्यनीतिः
(पाठान्तरम् - पञ्चैते ननु कल्प्यन्ते गर्भगत्त्वेन देहिनाम् ॥)
पदविभागः-
आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥
अन्वयः-
आयुः कर्म वित्तं विद्या निधनम् एव च । पञ्चैतानि हि गर्भस्थस्यैव देहिनः सृज्यन्ते ॥
प्रतिपदार्थः-
आयुः = आजन्म-मृत्यु-अवधिकालः ; life-span
कर्म = (अत्र) भाग्यं (पूर्वकृतस्य फलं) ; (here) fortune (result of previous deeds)
वित्तं = धनं ; wealth
विद्या = ज्ञानं ; education
निधनम् = मृत्युः ; death
एव च = तदपि ; (lit.) and
ननु = हि ; indeed
एते = इमे ; all these
पञ्च = एते पञ्च विषयाः ; five
एतानि = इमानि ; these
सृज्यन्ते = कल्प्यन्ते, प्रभवन्ति ; arranged
गर्भस्थस्यैव = गर्भे स्थितस्य एव, पिण्डप्राये एव ; while in womb
देहिनः = जीविनः ; of human-being
तात्पर्यम्-

मनुष्यस्य आयुर्दायं कियत्प्रमाणकं, भाग्यं कथं भविष्यति, आर्थिकीस्थितिः कीदृशी, ज्ञानं कियल्लप्स्यते, मृत्युश्च कदा भविष्यतीति तस्मिन् मातुः गर्भे एव स्थिते एव निर्णीयते। (अर्थात् अत्र पञ्चविषयेषु प्राणिनः इच्छा न गण्यते।)

These five: the life-span, the type of work, wealth, learning and the time of one's death are determined while one is in the womb. (The being’s like or dislike does not count here.)
प्रश्नाः-
   १.      पञ्च के सृज्यन्ते?

   २.      पञ्च कस्य सृज्यन्ते?

   ३.      गर्भस्थस्य’ इत्यत्र पदविश्लेषणं किम्?
   ४.      ‘देहिनः’ इत्यत्र का विभक्तिः?
   ५.      ‘वित्तञ्च’ इत्यत्र सन्धिविग्रहं कुरुत?
   ६.      ------ हि सृज्यन्ते । (रिक्तस्थानं पूरयत)।

1 comment: