Monday 25 June 2018

तत्कर्म यन्न बन्धाय


मूलम्-
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥
पदविभागः-
तत् कर्म यत् न बन्धाय, सा विद्या या विमुक्तये। आयासाय अपरं कर्म विद्या अन्या शिल्पनैपुणम्॥
अन्वयः-
यत् न बन्धाय (भवति) तत् (एव) कर्म। या विमुक्तये (कल्पिता) सा विद्या। अपरं कर्म आयासाय (भवति)। अन्या विद्या शिल्पनैपुणम् (मात्रम् भवति)।
प्रतिपदार्थः-
यत् न बन्धाय (भवति) = यत् (पाप-पुण्यादिना) न बध्नाति, स्वतन्त्रतां न हरति ; that which is not for bondage
तत् (एव) कर्म = तदेव कार्यं ; that (alone is) action, effort, activity
या विमुक्तये (कल्पिता) = या मुक्तिं ददाति ; that which (leads to) liberation
सा विद्या = तत् ज्ञानं ; that is learning, knowledge
अपरं कर्म = अन्यत् कर्म ; other work, activity
आयासाय (भवति) = श्रान्तये ; (is only) for waste of energy, exertion
अन्या विद्या = अन्यत् ज्ञानं ; other learning
शिल्पनैपुणम् (मात्रम् भवति) = केवलं क्रियाकौशलम् ; (is just mere) craftsmanship.
तात्पर्यम्- 

यत् कर्म पाप-पुण्यादिना न बध्नाति तदेव कर्म अवितथं कर्म भवति। अन्यत् कर्म श्रममात्रं भवति। या मुक्तिमार्गे नयति, सा विद्या अन्वर्था विद्या भवति। अन्यत् सर्वं केवलक्रियाकौशलम् भवति।

Effort is that which does not make us bound (to puNya and pApa). Learning is that which leads us to liberation. Rest of all activity is for exertion. And all other learning is mere craftsmanship.
प्रश्नाः-
    १.      का विद्या विद्या भवति?
    २.      किं कर्म वास्तवेन कर्म भवति?
    ३.      ------ अपरं कर्म। (रिक्तस्थानं पूरयत)
    ४.      ‘शिल्पनैपुणम्’ इति शब्दस्य व्याकरणम् किम्?
    ५.      ‘यन्न’ इत्यस्य सन्धिः विभज्यताम्।
    ६.      अन्या विद्या कस्मै भवति? (साधुविकल्पं चिनुत) क. विमुक्तये ख. शिल्पनैपुणम् ग. बन्धाय

No comments:

Post a Comment