Tuesday 26 June 2018

कोकिलानां स्वरो रूपं


मूलम्-
कोकिलानां स्वरो रूपं नार्या रूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
पदविभागः-  सुलभः
अन्वयः-
कोकिलानां रूपं स्वरः । नार्याः रूपं पतिव्रतम् । कुरूपाणां रूपं विद्या । तपस्विनां रूपं क्षमा ॥
प्रतिपदार्थः-
कोकिलानां = पक्षिविशेषाणां ; of the cuckoo birds
स्वरो = कण्ठध्वनिः ; voice
रूपं = सौन्दर्यं ; (here) beauty, elegance, grace
नार्या = स्त्रीणां ; of women
पतिव्रतम् = पतौ भक्तिः, सेवानिरतिश्च ; quality of being devoted to husband
कुरूपाणां = असुन्दराणां ; of the ugly (not good looking) men
विद्या = ज्ञानं ; knowledge
तपस्विनाम् = तपः शीलं येषां ; of the sages
क्षमा = अकोपः ; Patience, forbearance, forgiveness
तात्पर्यम्-

कोकिलपक्षिणां सौन्दर्यं मधुरस्वनौ वर्तते। स्त्रीणां च सौन्दर्यं स्वस्य पतौ अनुरक्तिः सेवाभावना च भवति। ज्ञानमेव रूपहीनानां सौन्दर्यं मन्यते। तपःसम्पन्नानां सौन्दर्यं परेषु सहिष्णुतायां विभाति।

Cuckoos' beauty is their voice. Women’s attraction point is in being husband-devoted. Elegance of ugly men is learning (having knowledge) and sages’ grace is forgiveness.
प्रश्नाः-
    १.      कस्य स्वरो रूपम्?
    २.      नार्या रूपं किम्?
    ३.      तपस्विनां किं रूपम्?
    ४.      विद्या रूपं ------ । (रिक्तस्थानं पूरयत)
    ५.      ‘पतिव्रतम्’ शब्दस्य कोऽर्थः?
    ६.      ‘तपस्विनां’ शब्दस्य पदविश्लेषणं कुरुत।

No comments:

Post a Comment