Monday, 25 June 2018

अवश्यमनुभोक्तव्यं


मूलम्-
अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥
पदविभागः-
अवश्यम् अनुभोक्तव्यं कृतं कर्म शुभाशुभम्। न अभुक्तं क्षीयते कर्म कल्प-कोटि-शतैः अपि ॥
अन्वयः-
कृतं कर्म शुभाशुभम् अवश्यम् अनुभोक्तव्यं (भवति)। अभुक्तं कर्म कल्प-कोटि-शतैः अपि न क्षीयते ॥
प्रतिपदार्थः-
कृतं = आचरितं ; Done, performed
कर्म = क्रिया ; action, deed
शुभाशुभम् = मङ्गलं, अमङ्गलं वा ; auspicious (or/and) inauspicious
अवश्यम् = विनापकरणं, अनिवार्यं ; definitely
अनुभोक्तव्यम् = अनुभवे प्राप्तव्यम् ; has to suffer, bear, undergo
अभुक्तं = न अनुभुक्तं ; unenjoyed, unused (here = not beared, not undergone)
कर्म = क्रियाफलं ; (here-) fruit of deeds
कल्प-कोटि-शतैः = शतानि ब्रह्मवत्सरैः, (1 कल्पः- 4320 लक्षमिताः मनुष्यवत्सराः इति आप्टेकोशे) ; hundreds of Brahma’s years (कल्प Apte: a period of 432 million years of mortals)
अपि = तथापि ; also, (even then)
न क्षीयते = क्षयं न याति ; does not decay, perish, destroy, diminish
तात्पर्यम्-

यत् कार्यमस्माभिः आचरितं, तस्य फलं विनापकरणं अनुभोक्तव्यमेव। अनुभवेनापकरणं विना नान्यः मार्गः। तत् कर्म  ब्रह्मवत्सराणां शतमपि तथैव अक्षीणं तिष्ठति।

Man is bound to experience the fruits of his good and bad actions. The karma does not diminish even after ages.
प्रश्नाः-
    १.      किमनुभोक्तव्यम्?
    २.      किं कैः न क्षीयते?
    ३.      कल्पकोटिशतैरपि’ इत्यत्र पदविश्लेषणं किम्?
    ४.      शुभाशुभम्’ इत्यत्र समासविग्रहं वदत?
    ५.      नाभुक्तं ------ कर्म। (रिक्तस्थानं पूरयत)
    ६.      ‘अनुभोक्तव्यं’ इत्यत्र पदविश्लेषणं किम्?

No comments:

Post a Comment