Monday 25 June 2018

श्रूयतां धर्मसर्वस्वं

मूलम्-
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैव विचार्यताम् 
आत्मनः प्रतिकूलानि परेषान्न समाचरेत् 
पदविभागः-
श्रूयतां धर्मसर्वस्वं श्रुत्वा च एव विचार्यताम्  आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥
अन्वयः-
धर्म-सर्वस्वं श्रूयताम्। श्रुत्वा च एव विचार्यताम्  आत्मनः प्रतिकूलानि परेषां न समाचरेत् 
प्रतिपदार्थः-
धर्म-सर्वस्वं = आचरणयोग्यं समस्तं ; essence of all dharma 
(It has many meanings- What applies here is this : (Apte)--Duty, prescribed course of conduct;)
श्रूयताम् = अवधार्यताम् ; Do hear
श्रुत्वा च एव  = अवधीर्य ; Having heard, after hearing
विचार्यताम् = चिन्तनं क्रियताम् ; think, ponder
आत्मनः = स्वस्य ; of the self
प्रतिकूलानि = कष्टप्रदानि ; unpleasant, disagreeable things;
परेषां = इतरेभ्यः ; to others
न समाचरेत् = न आचरेत् ; never, do not ; should do, perform, practise
तात्पर्यम्-

आचरणयोग्यं समस्तं कथ्यते, तत् श्रूयताम्। विचारणं क्रियताम्। यत् स्वस्य कृते क्लेशोत्पादकं भवति, तत् अन्येषां विषये न आचरणीयम्। (यतो हि सर्वत्र सर्वेषु एक एव आत्मा निवसति।)

Listen to the essence of all dharma, and then think it over well. Do never perform things, that are disagreeable to one-self, towards others.
प्रश्नाः-
    १.      किं श्रूयताम्?
    २.      श्रुत्वा किं क्रियताम्?
    ३.      परेषां किं न समाचरेत्?
    ४.      ‘विचार्यताम्’ इत्यत्र पदविश्लेषणं वदत?
    ५.      ‘परेषान्न’ इत्यत्र सन्धिः विभज्यताम्।
    ६.      श्रूयतां ------ । (रिक्तस्थानं पूरयत)।

No comments:

Post a Comment