Thursday 10 November 2016

ददाति प्रतिगृह्णाति



मूलम्-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ -पञ्चतंत्रम्, मित्रसंप्राप्तिः
पदविभागः-
अन्वयः-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति भुङ्क्ते भोजयते च एव षड्विधं प्रीतिलक्षणम् ।
प्रतिपदार्थः-
ददाति = वस्तु अन्यस्य आयत्तं करोति, अन्यस्मै अर्पयति ; gives
प्रतिगृह्णाति = स्वीकरोति, स्वायत्तीकरोति ; receives (something in return)
गुह्यम् = रहस्यं, निगूढविषयं ; secret (hidden feelings)
आख्याति = वदति, भाषते ; speaks
पृच्छति = ज्ञातुकामो भूत्वा प्रश्नं करोति ; asks, inquires
भुङ्क्ते = खादति ; eats (along with)
भोजयते = अन्नं खादयति, भोक्तुं अन्नं ददाति ; feeds, offers food to eat
च एव = अपि च ; also
षड्विधं = षट्-प्रकारकं ; six kinds
प्रीतिलक्षणम् = मैत्रीभावस्य ; characteristic of friendship
तात्पर्यम्-

(वस्तूनाम्) अर्पणं, (यदि किञ्चित् दीयते तर्हि) स्वीकरणं, रहस्यविषयस्य (स्वयं) भाषणं, (मित्रं च रहःसम्बन्धि)प्रश्नकरणं, (मित्रगृहे स्वयं) भोजनस्य स्वीकृतिः, (मित्राय) भोजनदानं– इति षट्प्रकारकं लक्षणं मितायाः वर्तते।

Giving (things), accepting (something in return), sharing secrets, asking (private questions), dines (along) and (invites to) offer food– these are the six signs of friendship.

देना, स्वीकारना, गुप्त बात बताना, पूछना, खाना, (और) खिलाना ये छे प्रीति (दोस्ती, मित्रता) के लक्षण हैं ।

प्रश्नाः-
    १. अस्मिन् श्लोके कस्य लक्षणमुच्यते?
    २. कति विधं तल्लक्षणम्?
    ३. ‘दानं’ नाम किम्? (स्वशब्दे लिखत)
    ४. गुह्यम् आख्याति’ इत्यस्य कोऽर्थः? (स्वशब्दे लिखत)
    ५. षड्विधं’ इत्यत्र कः सन्धिः?
    ६. प्रीतिलक्षणम्’ इत्यत्र कः समासः?

No comments:

Post a Comment