Thursday 10 November 2016

वित्तमेव कलौ नॄणां



मूलम्-
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ भागवतम् १२.२.२
पदविभागः-
वित्तम् एव कलौ नॄणां जन्म-आचार-गुण-उदयः । धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ।
अन्वयः-
कलौ वित्तम् एव नॄणां जन्म-आचार-गुण-उदयः, बलं धर्म-न्याय-व्यवस्थायां कारणं एव हि (भवति)।
प्रतिपदार्थः-
कलौ = कलियुगे ; in age of kali
वित्तम् एव = धनम् एव ; money alone
नॄणां = मनुष्याणां ; of men
जन्म-आचार-गुण-उदयः = उत्पत्तौ, चरित्रे, गुणे च उदयकारणम् ; cause for rise in birth, conduct and qualities
बलम् = शक्तिः ; strength
धर्म-न्याय-व्यवस्थायां = धर्म(कर्तव्य/आचार)-व्यवस्थितौ, नीति-व्यवस्थितौ च ; in the institution of dharma (here, duty) and law
कारणं = हेतुः, बीजम् ; cause
एव हि = तथैव, तथ्यम् ;  alone
तात्पर्यम्-

कलियुगे धनमेव मनुष्याणां जन्मनि, चरित्रे, गुणे च उन्नतिकारणं भवति। कर्तव्याचारादिव्यवस्थितौ शक्तिः एव हेतुः भवति । (धनस्य बलस्य च प्रामुख्यमत्रोच्यते। तत्सामान्यस्थितिरत्र वर्ण्यते। किन्तु धनस्य बलस्य उन्नतिकारणत्वादपि न केनचित् तत् अन्यायमार्गेण, अधर्ममार्गेण वा न लब्धव्यम्। अन्याय्यस्य फलं तु पापं सदा यस्मिन् कस्मिन्नपि युगे तथ्येन भवतीति स्मरणीयम्।)

In age of Kali, wealth becomes the main reason for rise of people in (terms of) birth, conduct and qualities; and strength is indeed the main reason in the institutions of dharma and nyAya.
[Importance of money and strength is stated. This shloka only states the condition typical to the age. But it does not mean one should earn it by wrong means. And then, one should always remember that, though importance for money is established in every age, but adopting wrong means will always have its fruit as sin.]

कलिकाल में मनुष्य का धन ही जन्म, चरित्र, गुणों में उन्नति का कारण होता है। शक्ति ही धर्म न्याय व्यवस्थाओं में (काम चलाने का माध्यम) कारण होता है। [धन एवं बल का प्रामुख्य यहाँ कहा जा रहा है। यह सामान्यस्थितिमात्र का  वर्णन है। इसका तात्पर्य ये नही है कि धन को अन्याय या अधर्म मार्ग के द्वारा कमाया जा सकता है। अधर्म का फल पाप तो हर युग में हुआ ही करता है।]

प्रश्नाः-
    १. नॄणां वित्तं कलौ किं भवति?
    २. वित्तं कुत्र बलं भवति?
    ३. जन्माचारगुणोदयःइत्यत्र कः समासः?
    ४. ‘धर्मन्यायव्यवस्थायां’ इत्यत्र कः समासः?

No comments:

Post a Comment