मूलम्-
गर्वाय परपीडायै
दुर्जनस्य धनं बलम्।
सुजनस्य तु दानाय
रक्षणाय च ते सदा॥
पदविभागः-
गर्वाय परपीडायै
दुर्जनस्य धनं बलम्। सुजनस्य तु दानाय रक्षणाय च ते सदा॥
अन्वयः-
दुर्जनस्य धनं गर्वाय बलम् परपीडायै (च भवतः)। सुजनस्य तु ते सदा (धनं) दानाय (बलं परेषां) रक्षणाय च (भवतः) ॥
दुर्जनस्य धनं गर्वाय बलम् परपीडायै (च भवतः)। सुजनस्य तु ते सदा (धनं) दानाय (बलं परेषां) रक्षणाय च (भवतः) ॥
प्रतिपदार्थः-
गर्वाय = औद्धत्याय,
अहङ्काराय, मदाय, अभिमानाय ; for arrogance
परपीडायै = अन्येषां
बाधनाय ; for harming, paining others
दुर्जनस्य =
दुष्टपुरुषस्य ; of the wicked
धनं = वित्तं ; money
बलम् = शक्तिः ; power,
strength
सुजनस्य तु =
सज्जनस्यस सत्पुरुषस्य ; of good one
दानाय = अर्थवितरणाय
; for charity
रक्षणाय च = पालनाय
; for protecting
ते = एते ; these
two
सदा = सर्वकालेषु ;
always
तात्पर्यम्-
दुष्टपुरुषस्य
वित्तं सदा अहङ्काराय भवति। तस्य बलं अन्येषां बाधनाय उपयुज्यते। सज्जनानां अर्थः
(निर्धनेभ्यः) वितरणाय, शक्तिस्तु अन्येषां पालनाय उपयुज्यते (इति तयोः भेदः)।
Wicked one’s money and strength
are for arrogance, and harming of others [respectively]. [But] those two of a
good man are always [used] for giving to others and for protection.
दुर्जन का धन अहंकार
(बढाने) के लिए, और बल दूसरों को पीडित (या शोषण) करने के लिए होता है। सज्जनों का
धन दान देने के लिए एवं बल दूसरों क रक्षा के लिए होता है।
प्रश्नाः-
१. दुर्जनस्य धनं किमर्थं भवति?
२. दुर्जनस्य बलं किमर्थं भवति?
३. सज्जनस्य धनं किमर्थं भवति?
४. सज्जनस्य बलं किमर्थं भवति?
५. ‘परपीडायै’ इत्यत्र कः समासः?
६. ‘गर्वाय’ इत्यत्र केन
चतुर्थीविभक्तिः?
No comments:
Post a Comment