Thursday 10 November 2016

आशाया कृतदासो



मूलम्-
आशाया कृतदासो यः स दासः सर्वदेहिनां ।
आशा दासीकृता येन तस्य दासायते जगत् ॥
पदविभागः-
आशाया कृतदासः यः सः दासः सर्वदेहिनां । आशा दासीकृता येन तस्य दासायते जगत् ॥
अन्वयः-
आशाया कृतदासः यः सः सर्वदेहिनां दासः। आशा दासीकृता येन तस्य जगत् दासायते ॥
प्रतिपदार्थः-
आशाया = दीर्घाकाङ्क्षा, आयता तृष्णा ; by greed
कृतदासः = भृत्यः कारितः ; rendered servant, made slave, enslaved
यः = यः पुंसः ; one who
सः = सः पुरुषः ; he
सर्वदेहिनां = समस्तप्राणिनां ; of all people, beings
दासः = भृत्यः, सेवकः ; slave
येन = येन नरेण ; by whom
तस्य = तस्य जनस्य ; his, of that one
जगत् = संसारः, लोकः ; world
दासायते = दासो भवति ; becomes a slave
तात्पर्यम्-

यः पुरुषः अधिकतृष्णां करोति, सः (तृष्णाशान्तये सर्वेभ्यः जीवेभ्यः यत्किञ्चित् वाञ्छति। अतः) सर्वेषां जीवानां दासवत् जीवति। यः दीर्घाकाङ्क्षान् जहाति, सः (कस्यापि दासो न भवति, प्रत्युत) समस्तं जगत् तस्यैव दासो भवति (यतः सः कस्मादपि किमपि नाकाङ्क्षति।)

One who is made slave of greed, becomes a slave of all beings. [But] to that who has enslaved the greed, the whole world becomes a slave.

जो व्यक्ति आशा के द्वारा दास बनाया गया हो, वह समस्त जीवों का दास होजाता है। जो आशा को ही अपना दास बना लेता है, उसका समस्त जगत दास होजाता है।
प्रश्नाः-
   १. कः सर्वदेहिनां दासः?
   २. आशया दासीकृतस्य किं भवति?
   ३. ‘दासायते’ इत्यस्य व्युत्पत्तिं वदत।

No comments:

Post a Comment