Thursday 10 November 2016

अर्थनाशं मनस्तापं

मूलम्-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । (पाठ. गृहिणीचरितानि च)
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ -चाणक्यनीतिः
पदविभागः-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं च अपमानं च मतिमान्न प्रकाशयेत् ।
अन्वयः-
मतिमान् अर्थनाशं मनस्तापं गृहे दुश्चरितानि च वञ्चनं च अपमानं च न प्रकाशयेत् ।
प्रतिपदार्थः-
मतिमान् = विवेकवान् ; wise person, intelligent one
अर्थनाशं = धनहानिं ; loss of money
मनस्तापं = हृदयपीडां ; mental agony, inner pain
गृहे = गेहे ; at home
दुश्चरितानि च = दुष्टानि आचरितानि ; bad characters, wrong behaviour (of home-mates)
वञ्चनं च = प्रतारणं, छलः ; deceit, fraud, deception
अपमानं च = पराभवः ; insult, dishonour
न प्रकाशयेत् = न बहिः प्रकटयेत् ; should not disclose
(पाठ. गृहिणीचरितानि = पत्न्याः सम्बन्धिविषयाः = character aspects of one’s wife)

तात्पर्यम्-
अपने धन का नाश, मन का सन्ताप, घर के (सदस्यों के) बुरे चरित्र, नीच मनुष्य की कही बात और अपना अपमान-- इनको बुध्दिमान मनुष्य किसी के समक्ष प्रकट न करे ॥

Wise man should never disclose [the following things]– monitory loss, inner pain, having bad things/people/events within the household, being cheated and being humiliated.

विचारशीलः नरः स्वसम्बद्धविषयानां प्रस्तुतिं अन्येषां समक्षे न कुर्यात् । एतान् रहसि स्थापयेत्– आर्थिकहानिः, हृदयपीडा, गेहे स्थितानां सदस्यानां (पत्न्याः च) दुष्टानि आचरितानि, (अन्यैः स्वस्मिन् कृतं) कपटं, अनादरः च। 

प्रश्नाः-
    १. अर्थनाशो नाम किम्?
    २. मतिमान् किं न कुर्यात्?
    ३. एतेषां बहिः प्रकटनेन किं भवति? (ऊहया लिखत)
    ४. ‘प्रकाशयेत्’ इत्यस्य शब्दनिर्मितिं वदत।

No comments:

Post a Comment