Thursday 10 November 2016

साक्षराः विपरीताश्चेद्



मूलम्-
साक्षराः विपरीताश्चेद्राक्षसा एव केवलम्।
सरसो विपरीतश्चेत् सरसत्वं न मुञ्चति॥
पदविभागः- अन्वयः-
साक्षराः विपरीताः चेत् राक्षसाः एव केवलम्। सरसः विपरीतः चेत् सरसत्वं न मुञ्चति॥
प्रतिपदार्थः-
साक्षराः = अक्षरलेखनज्ञानिनः ; those who can write, learned people in general
विपरीताः = विरुद्धक्रमाः, विपर्ययाः ; reversed, opposite
चेत् = यदि ; if
राक्षसाः एव = दानवाः ; demons verily
केवलम् = मात्रम् ; indeed (lit. only)
सरसः = सरलः, रसयुक्ताः ; charming, lovely, agreeable, beautiful
सरसत्वं = सरलत्वं, रसयुक्ततां ; charm
न मुञ्चति = न त्यज्यति ; does not leave
तात्पर्यम्-
अक्षराणां विपर्यस्तविन्यासेन अर्थगौरवं वर्णयति पद्यमिदम्। साक्षराः यदि विपरीतमाचरन्ति, (स्वेषामक्षरज्ञानस्य दुरुपयोगं कुर्वन्ति), तर्हि (विपरीताचरणेन अन्याय्येन यस्य हानिर्जाता, तस्मै) ते राक्षसाः (क्रूराः,दुष्टाः) भवन्ति। किन्तु सरसो विपरीत अपि (शब्दक्रमस्य विपर्यासेनापि) सरस एव भवति। (सरसः व्यक्तिः कदाचित् स्वस्य स्वभावं) रसयुक्तत्वं न मुञ्चति।)

साक्षर (लोग जो अक्षरज्ञान रखते हैं) वो क्रम विरुद्ध होकर (विपरीताचरण से) राक्षस (बुरे लोग) बन जाते हैं। पर सरस व्यक्ति विपरीतक्रम वाला होकर भी सरसत्व नहीं छोड़ता। (वो हर स्थिति में सरस रहता है।)

If [the word] साक्षराः (=scholars) become otherwise, they turn to राक्षसाः (=devils). [But] if [the word] सरस (=charming) is reversed, it does not leave out charmingness. This is play on words and meaning.
प्रश्नाः-
    १. साक्षराः विपरीताः किं भवन्ति?
    २. कः सरसत्वं न मुञ्चति?
    ३. ‘विपरीत’शब्दस्य कोऽर्थः?
    ४. अस्य पद्यस्य तात्पर्यं स्वशब्दैः वर्णयत।

No comments:

Post a Comment