Thursday 10 November 2016

अक्रोधेन जयेत्



मूलम्-
अक्रोधेन जयेत् क्रोधमसाधुं साधुना जयेत् । (पाठ. जयेत् क्रुद्धं)
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥ महाभारतम्, उद्योगपर्व
पदविभागः-
अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् । जयेत् कदर्यं दानेन जयेत् सत्येन च अनृतम् ।
अन्वयः-
अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् । कदर्यं दानेन जयेत् सत्येन च अनृतम् जयेत् ।
प्रतिपदार्थः-
अक्रोधेन = क्रोधराहित्येन, शान्त्या ; by patience, lack of anger
जयेत् = नियमितव्यम् ; should win over
क्रोधम् = चित्तस्य तीक्ष्णतां ; anger
असाधुं = साधुभिन्नं, असच्चरितं, दुष्टं ; bad, unpleasant, wicked
साधुना = उत्तमवृत्त्या ; by (what is) fit, proper, right
कदर्यं = क्षुद्रत्वं, कृपणभावं, धनादिदानभावकराहित्यं ; avariciousness, miserliness
दानेन = धनादिवितरणेन ; by charity
सत्येन च = तथ्येन, अवितथेन, यथार्थेन ; by truth
अनृतम् = सत्यभिन्नं, मिथ्यां ; falsehood
पाठ. क्रुद्धम् = क्रोधयुक्तं नरम् ; angry person (obj.)
तात्पर्यम्-

शान्तिभावेन क्रोधं, दुष्टं सज्जनतया, दानविरुद्धबुद्धिं दानकरणेन, मिथ्यां च यथार्थतत्त्वेन नियतितव्यम्।

One should win over anger by patience; wicked(ness) by [what is] right(eousness); win over the miserliness by charity and falsehood by truth.

क्रोध को शान्ति से, बुरे व्यक्ति को अच्छायी से, कन्जूसी को दान करने से, और झूठ को सच्चायी से जीतना चाहिए।

प्रश्नाः-
    १. क्रोधं केन जयेत्?
    २. कदर्यं नाम किम्?
    ३. दानेन किं जयेत्?
    ४. सत्येन किं जयेत्?
    ५. ‘अक्रोधः’ इत्यस्य कोऽर्थः?

No comments:

Post a Comment