Thursday 10 November 2016

रत्नाकरः किं कुरुते



मूलम्-
रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ॥-सुभाषितरत्नभाण्डागारः
पदविभागः-
रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ।
अन्वयः-
रत्नाकरः स्वरत्नैः किं कुरुते ? विन्ध्याचलः करिभिः किं करोति ? मलयाचलः श्रीखण्डखण्डैः किं (करोति ?) परोपकाराय सतां विभूतयः (भवन्ति)।
प्रतिपदार्थः-
रत्नाकरः = समुद्रः ; ocean
स्वरत्नैः = स्वस्य अमूल्यमणिभिः ; with gems
किं कुरुते = किं प्रयोजनं निर्वहति ; does what
विन्ध्याचलः = तन्नामविशिष्टः पर्वतः ; the mountain of vindhya
करिभिः = गजैः ; with elephants
किं करोति = किं कार्यं साध्नोति ; does what
मलयाचलः = तन्नामविशिष्टः पर्वतः ; mountain of malaya
श्रीखण्डखण्डैः = चन्दनशकलैः ; with sandal wood pieces
परोपकाराय = अन्येषां साहाय्यार्थं ; for helping others
सतां = सज्जनानां, उत्तमपुरुषाणां ; of noble people
विभूतयः = ऐश्वर्याणि ; Wealth, riches

तात्पर्यम्-

उदधिः (स्वस्मिन् स्थितैः) रत्नैः किं करोति ? (स्वार्थाय नोपयुङ्क्ते)। विन्ध्याचलः गजैः किमपि प्रयोजनं न साधयति। मलयपर्वताय स्वस्य चन्दनस्य न कोऽपि उपयोगः। उत्तमानां ऐश्वर्याणि अन्येषां प्रयोजनायैव भवन्ति।

What does ocean do with its gems? What does Vindhya mountain do with its elephants? What use does Malaya mountain have of sandalwood pieces? The riches of noble people are for helping others.

समुद्र (अपने में स्थित) रत्नों का क्या करेगा? विन्ध्यपर्वत का हाथियों से क्या काम? मलयपर्वत चन्दनके टुकडों का क्या करेगा? उत्तम जनों की सम्पत्तियाँ दूसरों की सहायता के लिए होती हैं।

प्रश्नाः-
    १. कः स्वरत्नैः किं कुरुते?
    २. करिभिः कः किं करोति?
    ३. मलयाचलस्य विभूतिः का?
    ४. ‘श्रीखण्डखण्डैः’ इत्यत्र कः समासः?
    ५. सतां विभूतयः किमर्थं भवन्ति?

No comments:

Post a Comment