मूलम्-
अपमानितोऽपि कुलजो न
वदति परुषं स्वभावदाक्षिण्यात्।
न हि मलयचन्दनतरुः
परशुप्रहतः स्रवेत् पूयम्॥
पदविभागः-
अपमानितः अपि कुलजः
न वदति परुषं स्वभाव–दाक्षिण्यात्। न हि मलय–चन्दनतरुः परशुप्रहतः स्रवेत् पूयम्॥
अन्वयः-
अपमानितः अपि कुलजः स्वभाव–दाक्षिण्यात् परुषं न वदति। मलय–चन्दनतरुः परशुप्रहतः पूयम् न हि स्रवेत्॥
अपमानितः अपि कुलजः स्वभाव–दाक्षिण्यात् परुषं न वदति। मलय–चन्दनतरुः परशुप्रहतः पूयम् न हि स्रवेत्॥
प्रतिपदार्थः-
अपमानितः अपि =
पराभूतः ; even when insulted
कुलजः = सत्कुले उत्पन्नः ; one born in a noble family
स्वभाव–दाक्षिण्यात्
= प्रकृतिसिद्ध-लब्ध-अनुकूलता-गुणवशात् ; because of natural-born
politeness
परुषं =
मनःपीडाकरवचनं, निष्ठुरवाक्यं ; hurting [words]
न वदति = न ब्रवीति
; does not speak
मलय–चन्दनतरुः =
मलयनामके पर्वते स्थितःवृक्षविशेषः ; Sandal-wood tree on Malaya mountain
परशुप्रहतः =
कुठारेण आहतः, ताडितः ; hit with axe
पूयम् = दुर्गन्धं ;
filthy smell
न हि = नैव ;
not
स्रवेत् =
निःसारयेत्, दद्यात् ; give out, flow out
तात्पर्यम्-
पराभूतः
अपि सत्कुले जातः पुरुषः निष्ठुरवाक्यानि सहजसिद्धदयाभावात् न वदति । मलयगिरौ
चन्दनतरुः कुठारेण आहतः अपि दुर्गन्धं न प्रसरति (सुगन्धमेव प्रसरति)॥
Even when insulted, a
noble-family-born person does not say hurting words, because of his innate
natural politeness. The sandal tree of the Malaya mountain does not give out
filthy smell [even] when cut with an axe. (It only gives
out good smell.)
अच्छे परिवार का
व्यक्ति अपना पराभव होने पर भी कठिन शब्द नही कहता। मलयपर्वत पर स्थित चन्दन वृक्ष
फरसे से मारने पर भी दुर्गन्ध नहीं (सुगन्ध ही) देता है।
प्रश्नाः-
१. कः कदा परुषं न वदति?
२. सः कुतः परुषं न वदति?
३. चन्दनतरुः कुत्र वर्तते?
४. चन्दनतरुः कदा किं न स्रवेत्?
५. ‘परशुप्रहतः’ इत्यत्र कः समासः?
६. ‘कुलजः’ इति शब्दस्य व्युत्तिं वदत।
No comments:
Post a Comment