मूलम्-
खलः करोति
दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां
बन्धनं तु महोदधेः ॥
पदविभागः-
खलः करोति दुर्वृत्तं
नूनं फलति साधुषु । दशाननः अहरत् सीतां बन्धनं तु महोदधेः ॥
अन्वयः-
खलः दुर्वृत्तं करोति । नूनं साधुषु फलति । दशाननः सीतां अहरत् महोदधेः तु बन्धनम् (अभवत्)॥
खलः दुर्वृत्तं करोति । नूनं साधुषु फलति । दशाननः सीतां अहरत् महोदधेः तु बन्धनम् (अभवत्)॥
प्रतिपदार्थः-
खलः = दुर्जनः ; wicked
man
दुर्वृत्तं =
दुष्कृतं, दुष्टाचरणं ; bad deed
करोति = आचरति ; does
नूनं = अवश्यम् ; Certainly,
assuredly, surely, verily, indeed
साधुषु = सज्जनेषु ;
upon good men
फलति = फलितो भवति,
प्रभावो पतति ; bears fruit
दशाननः = दशकण्ठः,
दशग्रीवः, रावणः, the ten-faced demon (Rāvaṇa)
सीतां = जानकीं,
रामपत्नीम् ; Sita (obj.)
अहरत् = अपहरणम्
अकरोत् ; stole
महा-उदधेः तु =
समुद्रस्य तु ; of the great ocean
बन्धनं = (अत्र)
सेतुनिर्माणं ; confinement, (lit. binding)
तात्पर्यम्-
दुर्जनः दुष्टं कार्यमाचरति, तत्फलं सज्जनेषु आपतति। रावणः सीतां अपाहरत्,
किन्तु बन्धनं समुद्रस्य अभवत्। (रामः सीताप्राप्तये लङ्कां गन्तुं समुद्रे सेतुं
निर्मितवान्।)
दुर्जन बुरा काम करता है, और फल सज्जनों पर (बिना कोयी अपराध) उसका प्रभाव
पड़ता है। रावण ने सीता का हरण किया, और बन्धन पड़ा समुद्र पर. (रावण तक पहुँचने
के लिए रामजी ने समुद्र पर बान्ध बनाया था।)
The
wicked one does bad things and they show up upon noble men. Ravana had taken
away Sita and the ocean had to be confined. (Rama built bridge across the ocean
to reach Ravana’s place, to get back Sita.)
प्रश्नाः-
१. खलः किं करोति?
२. साधुषु किं फलति?
३. बन्धनं कस्य कुतः अभवत्?
४. ‘दुर्वृत्तं’ इत्यस्य कोऽर्थः?
५. ‘महोदधेः’ इत्यत्र कः सन्धिः?
६. ‘फलति साधुषु’ इत्यत्र कथं
सप्तमीविभक्तिः?
No comments:
Post a Comment