Thursday, 10 November 2016

सतां हि दर्शनं



मूलम्-
सतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।
कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥
पदविभागः-
सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन फलते तीर्थम् सद्यः सज्जन–सङ्गतिः॥
अन्वयः-
सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन तीर्थम् फलते सज्जन–सङ्गतिः सद्यः (फलते)॥
प्रतिपदार्थः-
सतां हि = सज्जनानां, उत्तमजनानां ; of the saints
दर्शनं = अभ्युपगमनं, समीपं गमनं ; (here) visiting (lit. seeing)
पुण्यं = पुण्यकरं, शुभादृष्टं, सुकृतं, श्रेयः ; meritorious
तीर्थभूताः च = पुण्यस्थल-सदृशाः ; like a pilgrimage
सज्जनाः = सन्तः पुरुषाः, उत्तमजनाः ; saintly people
कालेन = कंचित् कालानन्तरं ; in time (here- after some time)
तीर्थम् = पुण्यस्थानं ; pilgrimage
फलते = लाभं ददाति ; is fruitful
सज्जन–सङ्गतिः = साधुजनानां संयोगः ; meeting/ company of saints
सद्यः = सपदि, तत्क्षणं ; immediately
तात्पर्यम्-

साधुजनानां दर्शनं सुकृतिकरं भवति। सज्जनाः पुण्यक्षेत्रसदृशाः भवन्ति। पुण्यक्षेत्रसन्दर्शनेन फलं चिरेण लभ्यते। साधुसमागमस्तु सपदि फलं ददाति।

Visiting the noble is by itself holy; since they are the source of pious and sacred knowledge. While the other 'tirthas' or holy places give their effects after some time, acquaintance with the good and righteous pays off immediately.

सत्पुरुषों का दर्शन बडा पुण्य देनेवाला होता है। साधुजन पुण्यक्षेत्र की भाँति होते हैं। पुण्यक्षेत्र भी कुछ समय बाद फल देते हैं। परन्तु सज्जनों का समागम तो झट से लाभ देता है।  

प्रश्नाः-
    १. केषां दर्शनं पुण्यम्?
    २. सज्जनाः कीदृशाः?
    ३. तीर्थं कदा फलति? सद्यः किं फलति?
    ४. ‘तीर्थभूताः’ इत्यत्र कः समासः?
    ५. ‘सज्जनसङ्गतिः’ इत्यत्र कः समासः?
    ६. साधुसमागमेन को लाभः? (स्वशब्दैः वर्णयत।)

No comments:

Post a Comment