मूलम्-
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण
भीतिम् ।
सुधां विना न प्रययुर्विरामं न
निश्चिदार्थाद्विरमन्ति धीराः ॥ –नीतिशतकम्,
भर्तृहरिः
पदविभागः-
रत्नैः महार्हैः तुतुषुः न देवाः न भेजिरे भीमविषेण
भीतिं । सुधां विना न प्रययुः विरामं न निश्चितार्थात् विरमन्ति धीराः ॥
अन्वयः-
देवाः महार्हैः रत्नैः न तुतुषुः। भीमविषेण भीतिं न भेजिरे। सुधां विना विरामं न प्रययुः। धीराः निश्चितार्थात् न विरमन्ति ॥
देवाः महार्हैः रत्नैः न तुतुषुः। भीमविषेण भीतिं न भेजिरे। सुधां विना विरामं न प्रययुः। धीराः निश्चितार्थात् न विरमन्ति ॥
प्रतिपदार्थः-
देवाः = द्युर्लोकवासिनः ; gods
महार्हैः = अमूल्यैः ; by
great, valuable, priceless
रत्नैः = तन्नामविशिष्टैः मणिभिः ; by gems, precious stones
न तुतुषुः = न तृप्ता अभवन् ; did not get satisfied,
were not contented
भीमविषेण = भयानक-गरलेन, हालाहलेन ; by
terrible poison
भीतिं = भयं ; fear
न भेजिरे = न प्राप्नुवन् ; did
not take recourse
सुधां = अमृतम् ; amṛtaṃ, the
nectar of immortality
विना = रहितं ; without
विरामं = अवसानं, विघ्नः ;
Cessation, discontinuance, pause, termination
न प्रययुः = न प्राप्नुवन् ; did not reach
धीराः = धैर्यशालिनः, स्थिरचित्ताः ; courageous
निश्चितार्थात् = कृतात् सङ्कल्पात् ; from determined,
ascertained end, aim, objective
न विरमन्ति = निवर्तन्ते
(पृथकग्गच्छन्ति) ; do not stop, do not cease to act, do not give up
तात्पर्यम्-
अति मूल्यवान रत्नों के ढेर मिलने पर देवगण संतुष्ट
न हुए, या भयंकर विष निकलने पर
वे डरे नहीं; अमृत न मिलने तक
वे रुके नहीं (डँटे रहे) । उसी तरह, धीर
व्यक्ति निश्चित किये कामों में से पीछे नहीं हटते ।
Gods
did not get satisfied by precious stones; were not afraid by dangerous poison;
did not stop until they attained the immortality nectar. Courageous people
never quit (in) the (middle of) goals they decide (to attain.)
द्युलोकवासिनः देवताः अमूल्यमणिभिः न सन्तोषमलभन्त। ते घोरगरलेन (हालाहालेन) न भीताः। यावत् पीयूषं
न प्राप्नुवन्, तावत् प्रयत्नं नात्यजन्। सङ्कल्पितेभ्यः कार्येभ्यः धैर्यशालिनो
नराः न निवर्तन्ते (पृथकग्गच्छन्ति)।
प्रश्नाः-
१.
के कैः न तुतुषुः?
२.
केन भीतिं न भेजिरे?
३.
के तस्मात् न विरमन्ति?
४.
‘निश्चितार्थात्’ इत्यत्र
कः समासः?
५.
‘भेजिरे’ इत्यस्य
व्युत्पत्तिं (शब्दनिर्मितिं) वदत।
६.
‘तुतुषुः’ इत्यस्य
व्युत्पत्तिं (शब्दनिर्मितिं) वदत।
निश्चित ध्येय साध्य होने तक .. ऐसा तात्पर्य होनाआवश्यक.
ReplyDeleteनिश्चित ध्येय साध्य होने तक .. ऐसा तात्पर्य होनाआवश्यक.
ReplyDelete५ और ६ प्रश्न मे व्युत्पत्ती नही रूपपरिचयं
लिखत ऐसा अधिक उचित होगा.