Wednesday 2 March 2016

गणयन्ति न ये सूर्यं



मूलम्-
गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।
यतन्ते सस्यलाभाय तैः साकं हि वसाम्यहम् ॥
पदविभागः-
गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः । यतन्ते सस्य-लाभाय तैः साकं हि वसामि अहम् ॥
अन्वयः-
ये कर्षकाः सूर्यं वृष्टिं शीतं च न गणयन्ति, सस्य-लाभाय यतन्ते, अहम् तैः साकं हि वसामि ॥
प्रतिपदार्थः-
ये कर्षकाः = कृषिकर्मकराः ; those farmers, who
सूर्यं = रविं, आतपं वा ; sun, (summer season)
वृष्टिं = वृष्टिं, वर्षाकालं वा ; rain, (rainy season)
शीतं = शीतलं, शीतकालं वा ; cold, (winter season)
न गणयन्ति = न चिन्तयन्ति, न (तद्विषये) दृष्टिं सारयन्ति ; (they) do not count, do not consider
सस्य-लाभाय = कृषिफलस्य हेतोः ; for obtaining the farm-produce
यतन्ते = प्रयतन्ते ; (they) strive
तैः साकं हि = कर्षकैः सह एव ; along with them
अहं = (विष्णुः) अस्य वचनस्य वक्ता ; I
वसामि = निवसामि, तिष्ठामि ; to live, stay
तात्पर्यम्-
ये क्षेत्रकाराः आतपं, वर्षां, शीततां वा अविगणय्य सस्यपालनाय, अन्नोत्पादनाय च यत्नशीलाः भवन्ति, अहं तैः सह निवसामि।

I stay along with those farmers who, without considering the heat, rain, or cold, strive for obtaining the grain-produce.

जो किसान गर्मी, ठण्ड, वर्षा में भी खेती करने (अनाज उत्पादन करने) जाते हैं, मै उनके साथ निवास करता हूँ।
प्रश्नाः-
१.      कर्षकाः नाम के? (ऊहया लिखन्तु)
२.      के किं न गणयन्ति?
३.      कर्षकाः कस्मै यतन्ते?
४.      अत्र अहं नाम कः? (ऊहया लिखन्तु)
५.      ‘सस्यलाभाय’ इत्यत्र समासविग्रहः कथम्?
६.      ‘वसाम्यहम्’ इत्यत्र सन्धिविच्छेदं कुरुत।

No comments:

Post a Comment