Wednesday 2 March 2016

सर्वद्रव्येषु विद्यैव



मूलम्-
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा ॥ -हितोपदेशः १.
पदविभागः-
सर्वद्रव्येषु विद्या एव द्रव्यम् आहुः अनुत्तमम् । अहार्यत्वाद् अनर्घ्यत्वाद् अक्षयत्वात् च सर्वदा ॥
अन्वयः-
सर्वद्रव्येषु विद्या एव सर्वदा अहार्यत्वाद् अनर्घ्यत्वाद् अक्षयत्वात् च अनुत्तमम् द्रव्यम् आहुः ॥
प्रतिपदार्थः-
सर्वद्रव्येषु = सर्ववस्तुषु ; among all objects, substances
विद्या एव = ज्ञानं ; knowledge (learning) only
सर्वदा = सर्वसमयेषु ; always
अहार्यत्वाद् = न शक्यते हर्तुमिति कारणेन ; because of unstealability
अनर्घ्यत्वाद् = अमूल्यत्वात् ; because of invaluability, pricelessness
अक्षयत्वात् च = क्षयं न यातीति कारणेन ; because of imperishability
अनुत्तमम् = अस्मात्परं न किञ्चिद् भवतीति ; nothing better than this, the best
द्रव्यम् = वस्तु ; substance
आहुः = इति वदन्ति ; they say
तात्पर्यम्-
सर्वधनेषु सर्वदा विद्याधनं प्रधानं भवति। नास्मादुत्तमं किञ्चिदन्यत् भवति। तस्य गुणा एवम्- विद्या न केनचित् हर्तुं शक्यते, तस्य मूल्यं इयदिति वक्तुं न शक्यते, तस्याः दानेनापि सा वर्धते, न तु क्षीयते।

They say- Knowledge is the supreme-most among all substances in the world- because it is unstealable, invaluable, and always imperishable.

सब द्रव्यों में विद्यारुपी द्रव्य सर्वोत्तम है, क्यों कि वह किसी से हरा नहीं जा सकता; उसका मूल्य नहीं हो सकता, और उसका कभी नाश नहीं होता ।

प्रश्नाः-
  १.      सर्वद्रव्येषु किं अनुत्तमम्?
  २.      अहार्यं नाम किम्?
  ३.      कथं विद्या अक्षयद्रव्यं भवति?
  ४.      ‘अनर्घ्य’-शब्दस्य व्युत्पत्तिं वदत।
  ५.      ‘अक्षयत्वात्’ इत्यत्र पञ्चमी कथम्?
  ६.      ‘सर्वद्रव्येषु’ इत्यत्र कथं सप्तमी?

1 comment:

  1. Merkur Futur Adjustable Safety Razor - Sears
    Merkur Futur 출장안마 Adjustable Safety Razor febcasino is the perfect balance of https://septcasino.com/review/merit-casino/ performance, safety, and comfort. Made in Solingen, Germany, this razor has a perfect balance filmfileeurope.com of kadangpintar

    ReplyDelete