Wednesday 2 March 2016

उपक्रमः

          पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
          सुष्ठु भाषितं सुभाषितम्। तदेव सूक्तिरित्यप्युच्यते। अल्पशब्दैः अनल्पो भावः सुभाषितैः व्यज्यते येषां श्रवणेन, पठनेन च विवेको वर्धते। विविधविषयक-सुभाषितानामध्ययनेन लोकज्ञानं लभते नरः।  आचरणेन च लोके धीशालीति कथ्यते पुरुषः।
     दैनन्दिनजीवनाय उपयोगिनः अनेके विषयाः, नीतयः, धर्माश्च एतैः सुबोधरीत्या बोध्यन्ते। देववाणीकवयः प्रसङ्गोचितनीतीनां धर्मसूक्ष्माणां च उल्लेखने समर्थाः। ते सुभाषितानां प्रयोगेण महाविषयान् अल्पीयसा वचसा प्रस्तुवन्ति। उपमा-रूपक-दीपक-सहजार्थान्तरन्यासाद्यलङ्काराणां यथोचितं प्रयोगेण एतेषु काव्यसौन्दर्यमपि सुष्ठु प्रदर्श्यते। प्रायः आर्यानुष्ठुभादीनि सरलानि लोकप्रियाणि च छन्दांसि यत्र प्रयुक्तानि तान्येव प्रसिद्धानि जातानि।
          एवंगुणविशेषविशिष्टानां सुभाषितानां पदविभागान्वयसहितं, आङ्ग्लेय्य-संस्कृत-प्रतिपदार्थसहितं, आङ्ग्लेय्य-संस्कृत-हिन्दी-तात्पर्यसहितं च विवरणं अत्र प्रस्तूयते। संस्कृताध्यायिनाम् उपयोगाय न केवलं भावस्य, अपि तु भाषाया अपि संवर्धनाय अत्र प्रयत्नो विहितः। संस्कृतभावस्य संस्कृतभाषायामेव अभिव्यक्तिः अद्यतनीयेषु अध्यायिषु अगम्यगोचरा सम्पद्यते। अतः सुलभतया अर्थावबोधये आङ्ग्लेय्यार्थः, भाषापटिमने संस्कृतार्थश्च दीयते।  

No comments:

Post a Comment