Wednesday 2 March 2016

दूरस्थोऽपि न दूरस्थः



मूलम्-
दूरस्थोऽपि न दूरस्थः यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ -विक्रमचरितम् ७८, (सुभाषितरत्नभाण्डागारः १६६.५९१)
पदविभागः-
अन्वयः-
दूरस्थः अपि न दूरस्थः यः यस्य मनसि स्थितः। यः यस्य हृदये नास्ति समीपस्थः अपि दूरतः ॥
प्रतिपदार्थः-
दूरस्थः अपि = दूरे स्थितः अपि ;  even when far away
न दूरस्थः = अन्तिके स्थितः ;  not situated far
यः = = यः पुंसः ; one who
यस्य = यस्य पुरुषस्य ; of whose
मनसि = हृदये, भावनायां ; in mind
स्थितः = निवसन्, भवन् ; situated
हृदये = अन्तरङ्गे, मनसि ; in heart
नास्ति = न वसति ; not there
समीपस्थः अपि = अन्तिके स्थितः अपि ;  even situated near
दूरतः = दूरे एव भवति ; far away
तात्पर्यम्-
यः पुरुषः कस्यचित्पुरुषस्य मनसि (अनुरागभाग्) भवति, तदानीं सः स्वस्मात् दूरे तिष्ठत्यपि अन्तिके एव भवति। यः भावनायां न निवसति, सः समीपे भूत्वापि दूरे एव स्थित इव।

One who is far away is actually not, when one is seated in one’s mind. One who is not in heart, is far away, even when beside.

जो जिसके मन में बसता है वह उससे दूर होकर भी दूर नहीं होता और जिससे मन से सम्बन्ध नहीं होता वह पास होकर भी दूर ही होता है॥

प्रश्नाः-
      १.      कः दूरस्थः अपि न दूरस्थः?
      २.      कः समीपस्थः अपि दूरस्थः?
      ३.      दूरस्थः, समीपस्थः – कः समासः? कथं विग्रहः?
      ४.      हृदये, मनसि स्थितिः- इत्यस्य कोऽभिप्रायः?
      ५.      समीपस्थोऽपि – इत्यत्र कः सन्धिः?
      ६.      दूरतः – इत्यत्र कः प्रत्ययः?

No comments:

Post a Comment