Wednesday 2 March 2016

पिबन्ति नद्यः स्वयमेव नाम्भः



मूलम्-
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥ सुभाषितरत्नभण्डागारः 51.170
पदविभागः-
पिबन्ति नद्यः स्वयम् एव न अम्भः स्वयं न खादन्ति फलानि वृक्षाः। न अदन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥
अन्वयः-
नद्यः स्वयम् एव अम्भः न पिबन्ति। वृक्षाः स्वयं न फलानि खादन्ति। वारिवाहाः सस्यं न अदन्ति खलु। सतां विभूतयः परोपकाराय ॥
प्रतिपदार्थः-
नद्यः = आपगाः ; rivers
स्वयम् एव = स्वार्थाय एव ; by one-self
अम्भः = जलं ; waters
न पिबन्ति = न पानं कुर्वन्ति ; do not drink
वृक्षाः = तरवः ; trees
फलानि = वृक्षोत्पन्न-खाद्य-विशेषानि ; fruits
न खादन्ति = न अदन्ति ; do not eat
वारिवाहाः = मेघाः, जलदाः ; clouds (lit. water-bearers)
सस्यं = कृषिफलं ; crop
न अदन्ति = न खादन्ति ; do not eat
खलु = हि, किल ; indeed
सतां = सज्जनानां ; of noble
विभूतयः = ऐश्वर्याणि ; wealth, prosperity
परोपकाराय = = परेषां साहाय्यार्थं ; for helping others
तात्पर्यम्-

नद्यः स्वस्य जलानि स्वयमेव न पिबन्ति। तरवः स्वस्य फलानि न खादन्ति। मेघाः स्वस्य जलेन (संवर्धितानि) सस्यानि न खादन्ति। सज्जनानां ऐश्वर्याणि परेषां साहाय्यार्थं भवन्ति।

The rivers do not drink their own waters; the trees don’t eat their own fruits. The clouds, indeed, do not eat the crops [they have watered]. The wealth of the good people are for helping others.

नदियाँ अपना पानी खुद नहीं पीती, वृक्ष अपने फल खुद नहीं खाते, बादल (खुद ने उगाया हुआ) अनाज खुद नहीं खाते । सत्पुरुषों का जीवन परोपकार के लिए हि होता है ।

प्रश्नाः-
      १.      नद्यः किं न कुर्वन्ति?

      २.      वृक्षाः किं न खादन्ति?


      ३.      वारिवाहाः किं नादन्ति?


      ४.      ‘वारिवाहाः’ इति शब्दस्य कोऽर्थः?


      ५.      ------- सतां विभूतयः। (रिक्तं स्थानं पूरयत।)


      ६.      परोपकारो नाम किम्? (ऊहया लिखत)।

8 comments:

  1. is video is not there of this shloka

    ReplyDelete
  2. Thank you.. this translation helped us a lot

    ReplyDelete
  3. यह श्लोक किस प्राचीन ग्रंथ में लिखा हुआ है

    ReplyDelete
  4. After school days, I remembered this shlok and found it !! Thanks.

    ReplyDelete
  5. Thanku sir for these brilliant translation it helped me a lot

    ReplyDelete