Wednesday, 2 March 2016

गुरुर्बन्धुरबन्धूनां



मूलम्-
गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥
पदविभागः-
गुरुः बन्धुः अबन्धूनां गुरुः चक्षुः अचक्षुषाम् । गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥
अन्वयः-
गुरुः अबन्धूनां बन्धुः। गुरुः अचक्षुषां चक्षुः। सर्वेषां न्यायवर्तिनां गुरुः पिता च माता च ॥
प्रतिपदार्थः-
गुरुः = अध्यापकः, उपाध्यायः, आचार्यः ; preceptor, teacher, preacher
बन्धुः = ज्ञातिः, स्वजनः ; brother, kin, relative
अबन्धूनां = बन्धुविहीनानां, स्वजनरहितानां ; of those who do not have any brothers or kinsmen
चक्षुः = अक्षि, नयनं ; eye
अचक्षुषां = चक्षुरहितानां, अक्षिविहीनानां ; of those without eyes (blind)
पिता = जनकः, जन्मदाता ; father
माता = जननी, जनयित्री ; mother
सर्वेषां = सर्वजनानां ; of everyone, all
न्यायवर्तिनां = सन्मार्गगामिनां ; for those who travel on righteous path
तात्पर्यम्-
गुरु बन्धुरहित व्यक्ति के लिए बन्धु होते हैं। जिसकी आँखें नहीं- उसकी गुरु ही आँखें होते है। गुरु ही सभी सन्मार्गगामियों के लिए माता एवं पिता होते हैं।
Guru is the relative of those without relatives. He is the eyes of those without sight. He is the father and mother to all those who travel on the righteous path of life. (Guru is one’s everything.. like God. He helps us to see the Truth.)
अध्यापकः अथवा उपाध्यायः बान्धवविहीनानां बन्धुरिव भवति। सः दृष्टिहीनानां दृष्टिः भूत्वा सन्मार्गं दर्शयति। सः सत्पथगामिनां न्यायमार्गावलम्बिनां पितराविव भवति।
प्रश्नाः-
      १.      गुरुः कस्य बन्धुः भवति?
      २.      गुरुः अचक्षुषां किं भवति?
      ३.      गुरुः न्यायवर्तिनां किं भवति?
      ४.      न्यायवर्तिनां’शब्दस्य व्युत्पत्तिं दर्शयत।
      ५.      ‘अबन्धूनां’ इत्यत्र कः समासः?
      ६.      अचक्षुषां चक्षुः इत्यस्य कोऽर्थः?

No comments:

Post a Comment