Wednesday 2 March 2016

प्रेक्षणीयः प्रयत्नेन



मूलम्-
प्रेक्षणीयः प्रयत्नेन स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥
पदविभागः-
प्रेक्षणीयः प्रयत्नेन स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते॥
अन्वयः-
स्वभावः प्रयत्नेन प्रेक्षणीयः। इतरे गुणाः न । गुणान् सर्वान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥
प्रतिपदार्थः-
स्वभावः = अन्तःप्रकृतिः, स्वकीयभावः, निसर्गः ; inner nature
प्रयत्नेन = प्रकृष्टेन यत्नेन ; by efforts
प्रेक्षणीयः = परिशीलनीयः, सूक्ष्मतया दर्शनीयः ; should be observed
न इतरे = नान्ये ; not others
गुणाः = विशेषलक्षणानि ; qualities
गुणान् सर्वान् = समस्तान् गुणान् ; all the qualities
अतीत्य हि = अतिरिच्य, अतिक्रम्य ; surpassing
मूर्ध्नि = शिरसि ; on head
वर्तते = भवति ; stays, is there
तात्पर्यम्-

मानवस्य प्रकृतिरेव परिशीलनीया। न इतरे गुणाः (गौणत्वात्)। समस्तगुणान् अतिरिच्य स्वकीया प्रकृतिरेव प्रमुखा वर्तते। (तत्परिशीलनेन सर्वे गुणाः ज्ञायन्ते।

One should observe the inner nature carefully, and not other qualities. Surpassing all (general) qualities, inner nature happens to be head of them.

मनुष्य के मूल स्वभाव प्रयत्नपूर्वक देखना चाहिए, इतर गुण नहीं देखना। कारण, सर्व गुणोंका अन्त्य में स्वभाव ही अपना शिरोभाग में रहता है। स्वभाव ही शाश्वत प्रमाण है।

प्रश्नाः-
     १.      कः प्रेक्षणीयः?
     २.      के न प्रेक्षणीयाः?
     ३.      स्वभावः कुत्र वर्तते?
     ४.      अतीत्य -- अस्य शब्दस्य व्युत्पत्तिं वदत।
     ५.      प्रेक्षणीयः -- अस्मिन् शब्दे कः प्रत्ययः?
     ६.      मूर्ध्नि वर्तते- इत्यस्य कोऽभिप्रायः?

No comments:

Post a Comment