मूलम्-
असतोऽपि
भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः।
पङ्कादुदेति
कमलं क्रिमयः कमालादपि भवन्ति॥
पदविभागः-
असतः
अपि भवति गुणवान् सद्भ्यः अपि परं भवन्ति असद्वृत्ताः। पङ्काद् उदेति कमलं क्रिमयः
कमालाद् अपि भवन्ति॥
अन्वयः-
असतः अपि गुणवान् भवति। सद्भ्यः अपि परं असत्–वृत्ताः भवन्ति। पङ्काद् कमलं उदेति। क्रिमयः कमालाद् अपि भवन्ति॥
असतः अपि गुणवान् भवति। सद्भ्यः अपि परं असत्–वृत्ताः भवन्ति। पङ्काद् कमलं उदेति। क्रिमयः कमालाद् अपि भवन्ति॥
प्रतिपदार्थः-
असतः
अपि = दुर्जनादपि ; from
the wicked
गुणवान्
= सद्गुणशीलः, सज्जनः, सुगुणयुक्तः ; virtuous one
भवति
= जायते ; comes
out, is born
सद्भ्यः
अपि = सज्जनेभ्योऽपि, सत्पुरुषेभ्योऽपि ; from noble ones also
परं
= किन्तु ; but,
very much
असत्–वृत्ताः
= दुष्टाः, दुर्गुणशीलाः, दुर्जनाः ; wicked-natured
पङ्काद्
= (मृत्-जल-मिश्रित-कलुषस्थानात्), कर्दमात्, जम्बालात् ; from the mud
कमलं
= पद्मं, पङ्कजं ;
lotus
उदेति
= प्रभवति, उत्पद्यते ; comes
out, rises
क्रिमयः
= सूक्ष्मजीविनः, कीटादि-अल्पप्राणिनः, क्षुद्रजन्तवः ; germs
कमालाद्
अपि = पद्मात् अपि ;
from lotus also
भवन्ति
= जायन्ते, प्रभवन्ति ; are
born
तात्पर्यम्-
दुर्जनों के मध्य से सज्जन हो सकते हैं और सज्जनों के बीच से ही
दुष्टलोग। (जैसे-) कीचड में से भी कमल खिलता है, और उस कमल से भी कीटाणु निकलते
हैं।
A virtuous
person might arise from (among) wicked people; and evil-minded people can arise
from (among) noble ones. Lotus is born out of mud, and germs arise out of even
the lotus.
दुर्जनेभ्यः
सज्जनो जायते कदाचित्। क्वचित् सज्जनेभ्योऽपि दुष्टः उत्पद्यते। (यथा-) कर्दमात्
(अशुचिस्थानात्) पद्मं विकसति, तस्मात् पद्मात् एव कीटाणवः जायन्ते।
प्रश्नाः-
१.
कुतः गुणवान् भवति?
२.
सद्भ्योऽपि के भवन्ति?
३.
क्रिमयः कुतो जायन्ते?
४.
‘भवन्त्यसद्वृत्ताः’ इत्यत्र कः सन्धिविच्छेदः?
५.
‘पङ्कादुदेति’ इत्यत्र कः सन्धिविच्छेदः?
६.
‘असद्वृत्ताः’ इत्यत्र कः समासः?
No comments:
Post a Comment