मूलम्-
आचारः
परमो धर्म आचारः परमं तपः।
आचारः
परमं ज्ञानमाचरात् किं न साध्यते॥
पदविभागः- अन्वयः-
आचारः परमः धर्मः आचारः परमं तपः। आचारः परमं ज्ञानम् आचरात् किं न साध्यते॥
आचारः परमः धर्मः आचारः परमं तपः। आचारः परमं ज्ञानम् आचरात् किं न साध्यते॥
प्रतिपदार्थः-
आचारः
= सदाचारः, नियमानुष्ठानं ; (here- Practicing of) any customary observance or duty
परमः = उन्नतः,
उत्तमः ; highest, best, most excellent, greatest;
धर्मः
= कर्तव्यम् ; (here)
sacred duty
परमं
तपः = उत्तमं तपः (वैधक्लेशजनकं कर्म) ; greatest penance
परमं
ज्ञानम् = उत्कृष्टः बोधः ; superior knowledge
आचरात्
= सदाचरणेन, नियमानुष्ठानेन ; through practicing
किं =
कः पदार्थः ; what
न
साध्यते = न प्राप्तुं शक्यते ; is not possible?
तात्पर्यम्-
सदाचारानुष्ठानमेव
उन्नतः धर्मः, उत्तमं तपः, उत्कृष्टं ज्ञानं च भवति। नियमानुष्ठानेन किं वा न
साधयितुं शक्नोति पुरुषः?
Practicing
is the highest dharma (sacred duty), greatest penance, superior knowledge. What
is that which can't be achieved through
practicing.
सदाचार का अनुष्ठान ही उत्तम धर्म, तपस्या और ज्ञान है। सदाचरण
से ऐसी कौन सी वस्तु है, जो पायी नही जा सकती?
प्रश्नाः-
१.
आचारः नाम किम्? स्ववाक्येषु विवृणुत।
२.
तपः इति किंलिङ्गकं पदम्?
३.
आचारात् इत्यत्र कः विभक्तिः?
No comments:
Post a Comment