Wednesday, 2 March 2016

दूरस्थो ज्ञायते सर्वः



मूलम्-
दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत् ।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा ॥ रामायणमञ्जरी, किष्किंदा
पदविभागः-
दूरस्थः ज्ञायते सर्वः पर्वते ज्वलनादिवत् चूडामणिः शिरस्थः अपि दृश्यते न स्वचक्षुषा ।
अन्वयः-
दूरस्थः सर्वः पर्वते ज्वलनादिवत् ज्ञायते। चूडामणिः शिरस्थः अपि स्वचक्षुषा न दृश्यते ।
प्रतिपदार्थः-
दूरस्थः = अनिकटम्, असन्निकृष्टम्, दूरे स्थितः ; situated faraway
सर्वः = समस्तं ; everything
पर्वते = उत्तुङ्गशैले ; on the mountain
ज्वलनादिवत् = अग्निवत् ; like the fire
ज्ञायते = अवगम्यते ; is known
चूडामणिः = मूर्धाभरणम्, शिरोरत्नम् ; a jewel worn on the top of the head, a crest-jewel
शिरस्थः अपि = मूर्ध्नि स्थितोऽपि ; even when situated on (one’s own) head
स्वचक्षुषा = स्वस्य अक्षिभ्याम् ; with own eye
न दृश्यते = न लक्ष्यते, न गोचरीभवति ; cannot be seen
तात्पर्यम्-

यथा पर्वते ज्वलद् वह्निः दूरतः अपि द्रष्टुं शक्यते तथा, दूरे स्थितं कश्चित् वस्तु सम्पूर्णतया दृश्यते। किन्तु यत् स्वसमीपे वर्तते, तदपि कदाचित् द्रष्टुं न पारयामः। यथा चूडामणिः शिरसि वर्तमानः अपि स्वस्य नेत्राभ्यां साक्षात् द्रष्टुं न शक्यते, तथैव।

Everything faraway can be known, like the fire on the mountain. But crest-jewel cannot be seen by one’s own eyes.

जो दूर है, वो सब दिख जाता है, जैसे पर्वत पर लगी आग। किन्तु जो चूडामणि अपने ही सिर पर रखी है, वो भी स्वयं अपनी आंखो से नही देखी जा सकती है।

प्रश्नाः-
      १.      दूरस्थः सर्वः कथं ज्ञायते?
      २.      स्वचक्षुषा किं न दृश्यते?
      ३.      चूडामणिः कुत्र वर्तते?
      ४.      ‘दृश्यते’ इति शब्दस्य व्युत्पत्तिं वदत।
      ५.      ‘ज्वलनादिवत्’ इत्यत्र कः समासः?
      ६.      अस्य श्लोकस्य अन्तरार्थः कः?

No comments:

Post a Comment