Wednesday 2 March 2016

अष्टौ गुणाः पुरुषं दीपयन्ति



मूलम्-
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
पदविभागः-
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्व-दमौ श्रुतं च । पराक्रमः च अबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
अन्वयः-
प्रज्ञा सुशीलत्व-दमौ श्रुतं च । पराक्रमः च अबहुभाषिता च दानं यथाशक्ति कृतज्ञता च अष्टौ गुणाः पुरुषं दीपयन्ति ॥
प्रतिपदार्थः-
अष्टौ = अष्टसङ्ख्याकाः ; eight
गुणाः = वैशिष्ट्यानि, लक्षणानि ; qualities
पुरुषं = नरं, मनुष्यं ; man (obj.)
दीपयन्ति = प्रकाशवन्तं कुर्वन्ति ;(they) adorn, grace, brighten
प्रज्ञा = प्रकृष्टं ज्ञानं, धीशक्तिः ; intellect, wisdom
सुशीलत्वं = सज्जनता, सदाचारः ; good disposition, good nature, good character
दमः = इन्द्रियनिग्रहः ; Self-restraint, subjection, control
श्रुतं = ज्ञानं ; knowledge that’s gained by hearing
पराक्रमः = शौर्यं, शक्तिः ; valour
अबहुभाषिता = नाधिकं भाषणं ; not speaking too much
दानं = स्वस्य वस्तुनः धनस्य वा अन्यस्मै प्रदानं, परायत्तीकरणं ; giving cash and kind in charity
यथाशक्ति = शक्तिमनुसृत्य, यावत् शक्यते तावत् ; strength
कृतज्ञता = कृतं प्रति धन्यवादभावना ; gratitude
तात्पर्यम्-

धीशक्तिः, सुजनत्वं, निग्रहः, ज्ञानं, शौर्यं, नाधिकं भाषणं, धनवस्त्वादिनां शक्तिमनुसृत्य प्रदानं, कृतस्य स्मरणं च अष्टौ गुणाः पुरुषं दीपयन्ति ॥

Eight qualities brighten a person: Intellect, good disposition, self-restraint, knowledge, valour, not talking too much, being charitable as per his (financial) strength and gratitude.

किसी व्यक्ति को आठ गुण प्रकाशित करते है- प्रज्ञा, शील, आत्मनिग्रह, ज्ञान, पराक्रम, अधिक न बोलना, जितनी शक्ति- दान देना, और कृतज्ञता का भाव रखना।

प्रश्नाः-
       १.      कति गुणाः पुरुषं दीपयन्ति?
       २.      अबहुभाषिता नाम किम्?

       ३.      दानं नाम किम्?


       ४.      ‘यथाशक्ति’ इत्यत्र कः समासः?


       ५.      ‘दीपयन्ति’ इत्यस्य व्युत्पत्तिं वदत।

       ६.      ‘सुशीलत्वं’ इत्यत्र कः प्रत्ययः?

No comments:

Post a Comment